SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ तदा देशान्तरादागात, स दृष्ट्वा स्पर्शनं मुदा । बालं पप्रच्छ कोऽयं ना, स ऊचे तस्य वल्गितम् ॥८२॥ ततो बालस्य वचनात्, स्पर्शनो मध्यमाङ्गके । प्राविशत् तेन जज्ञेऽसौ, बालवद् विह्वलाशयः ॥८॥ मनीषी तत्तु विज्ञाय, मध्यमाय न्यवेदयत् । मूला स्पर्शनसंशुद्धिं, स दध्यौ संशयाकुलः ॥८४॥ एकतः स्पर्शसत्सौख्यमन्यतो भ्रातृवारणम् । नहि जानाम्यहं सम्यक्, किं विधातुं ममोचितम् ? ॥८५॥ तत् पृच्छामि सदासौख्यजननी जननीमिति । ध्यात्वा निवेद्य वृत्तं स्वं, कृत्यं पप्रच्छ तां ततः॥८६॥ जगाद साऽपि माध्यस्थ्यमधुना धेहि नन्दन !। कालान्तरे तु बलिनं, पक्षं निर्दोषमाश्रयेः ॥८७॥ यतःसंशयापन्नचित्तेन, भिन्ने कार्यद्वये सता । कार्यः कालविलम्बोत्र, दृष्टान्तो मिथुनद्वयम् ॥८॥ तथाहिपुरे कस्मिन्नृजो राज्ञः, प्रगुणा नाम पत्न्यभूत् । तस्याश्च तनयो मुग्धो, वधूश्चाकुटिलाभिधा ॥८९॥ पुष्पोच्चयकृतेऽन्येास्ते मुग्धाकुटिले मधौ । स्वगेहोपवनेऽयातां, गृहीत्वा हेमसूर्पिके ॥९॥ का पूर्व पूरयेच्छुर्पमित्याशयपरौ मिथः । दूर दूरतरं यातो, तन्वानी कुसुमोच्चयम् ॥११॥ इतश्च व्यन्तरयुगं, तत्रागात् केलिलालसम् । देवी विचक्षणा नाम, देवः कालज्ञसंज्ञितः ॥१२॥ देवो दैवानुभावेनानुरक्तोऽकुटिलो प्रति । मुग्धं प्रति पुनर्देवी, देवोऽवादीत् प्रियामथ ॥१३॥ Jain Education Internationa For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy