SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् वृद्धानुगतत्वाख्यो गुणः ॥७५॥ १७ स्वसुतं मधुरैक्यैिर्वभाषे शुभसुन्दरी । वत्सास्य पापमित्रस्य, सम्बन्धस्ते न सुन्दरः ॥६९॥ सोऽभ्यधादेवमेवैतत्, मातः! किं क्रियते परम् । प्रतिपन्नमकाले हि, सतां हातुं न युज्यते॥७॥ शुभसुन्दर्यथावोचदहो ते वत्स! सन्मतिः। अहो ! ते नतवात्सल्यमहो! ते नीतिनैपुणम् ॥७१॥ तथाहिनाकाण्ड एव मुश्चन्ति, सदोषमपि सज्जनाः। प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः ॥७२॥ यस्तु मूढतया काले, प्राप्तेऽपि न परित्यजेत् । स दोषं लभते तस्मात्, संक्षयं नात्र संशयः ॥७३॥ कर्मविलासराजोऽपि, तज्ज्ञात्वा दयितामुखात् । तुष्टो मनीषिणो गाढं, रुष्टो बालस्य चोपरि ।।७४॥ अभूत्यक्तान्यकर्त्तव्यो, बालः स्पर्शनदोषतः । विलसन् मृद्वपस्मारो, मारमारितचेतनः ॥७५।। तन्मूलशुद्धिमाख्याय, बालः प्रोक्तो मनीषिणा । स्पर्शनेत्र रिपौ भ्रातर्मा विश्रम्भं कृथाः क्वचित् ।।७६।। बालो जजल्प हे बन्धो !, निःशेषसुखदायकः । अयं वरवयस्यो मे, कथं शत्रुस्त्वयोदितः ॥७७॥ दध्यौ मनीषी बालोऽयमुपदेशशतैरपि । अकार्यकरणोयुक्तो, निषेधुं पार्यते नहि ॥७८॥ अकार्ये दुर्विनीतेषु, प्रवृत्तेषु ततः सदा । न किश्चिदुपदेष्टव्यं, सता कार्याऽवधीरणा ॥७९॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोयुक्तो, मनीषी मौनमाश्रितः ॥८॥ अथ सामान्यरूपाख्या, प्रिया तस्यैव भूपतेः । अस्ति मध्यमबुद्ध्याख्यस्तस्याश्च तनयो नयी ॥८॥ तत्र मध्यमबुद्धिचरि तम्। * ॥७५॥ in Eduent an international For Private & Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy