________________
इत्युक्त्वा स ययौ तूर्ण, चित्ते दध्यावहं पुनः । अये ! स्पर्शनसंशुद्धिलब्धेयं सकला मया ॥५५।। किन्त्विदं घटते नायं, यत् सन्तोषात् पराभवम् । स्पर्शनस्याह स पुनस्तमाचख्या सदागमात् ॥५६॥ तत्तस्यानुचरः कोऽपि, सन्तोषो भविता ह्ययम् । एवं वितर्कयनागा, प्रमाणं स्वाम्यतः परम् ।।५७॥ बोधेनाभिदधे साधु, प्रभावानुष्ठितं त्वया। तेनैव सहितो बोधो, ययौ पार्श्वे मनीषिणः ॥५८॥ कृतानतिः कुमाराय, तं वृत्तान्तं न्यवीविदत् । प्रभावं पूजयामास, प्रीतात्मा नृपनन्दनः ॥५९॥ मनीषिणाऽन्यदा प्रोचे, स्पर्शनाख्याहि किं तव । चक्रे सदागमेनैव, मित्रेण विरहो ननु ॥६॥ तत्रासीद् किमुतान्योऽपि ?, स स्माहासीत् परं सखे! । कृतं तत्कथया यन्मां, स कदर्थयते भृशम् ॥६१।। कर्ता हि सैव सर्वस्योपदेष्टैव सदागमः। भूयः किं तस्य नामेति, तं पप्रच्छ नृपात्मजः॥२॥ भयविह्वल ऊचेऽसौ, तस्याहं क्रूरकर्मणः । नामाप्युच्चरितुं नेशस्ततोऽवादीन्नरेन्द्रसूः ॥६॥ त्वया नैवास्मदभ्यणे, भीतिः कार्या मनागपि । भद्र ! नह्यग्निरित्युक्ते, मुखदाहः प्रजायते ॥६४॥ अथ ज्ञात्वातिनिर्वन्धं, स्पर्शनः स्माह दैन्यभाक् । सन्तोष इति दुर्नाम, तस्य पापशिरोमणेः ॥६५॥ नरेन्द्रनन्दनो दध्यावियता सकलोऽप्यहो । प्रभावानीतवृत्तान्तो, घटाकोटिमटीकत ॥६६॥ अन्यदा स्पर्शनः सिद्धयोगिवत् तत्पुरेऽविशत् । बालोऽतीववशीभूतो, मनीषी तु तथा नहि ॥६७॥ ताभ्यां सर्वः प्रबन्धोऽयं, स्वस्वमात्रोनिवेदितः। उवाचाकुशला बालं, वत्सेदं साधु साध्वभूत् ॥६८॥
Jain Educaton Internationa
For Private Personel Use Only
www.jainelibrary.org