________________
श्रीधर्मरत्न प्रकरणम्
वृद्धानुगतत्वाख्योगुणः
॥७४॥
१७
भूयो भूयः पराभूय, तानि तेन कियान् जनः । देवभुक्तेर्बहिस्थायां, प्रक्षिप्तो निवृतौ पुरि ॥४१॥ तन्मन्त्रिवचनं श्रुत्वा, कोपाटोपारुणेक्षणः। तस्योपरि स्वयं देवः, प्रतस्थे रणकर्मणे ॥४२॥ इतश्चास्मारि देवेन, तातपादाभिवन्दनम् । तरङ्गेणेव पाथोधेर्ववले च क्षणात्ततः ॥४३।। विपाकोऽथ मया नाथ !, सम्भ्रमोभ्रान्तचक्षुषा । पृष्टः कोऽस्य नरेन्द्रस्य, पितेति मम कथ्यताम् ॥४४॥ ईषद् विहस्य स प्रोचे, ननु मोहो महानृपः । त्रिलोकीख्यातमहिमा, दध्यौ वृद्धोऽन्यदेति सः॥४५॥ पार्श्वे स्थित्वाऽपि वीर्येण, क्षमोऽहं रक्षितुं जगत् । तेनाधुना प्रयच्छामि, साम्राज्यं निजसूनवे ॥४६॥ राज्यं देवाय दत्त्वाऽथ, शेते मोहो निराकुलः । तथापीदं जगत् तस्य, प्रभावेणैव वर्त्तते ॥४७॥ तदेष मोहराजस्ते, कथं प्रष्टव्यतां गतः । व्याहारि हारि वचनं, ततस्तं प्रत्यदो मया ॥४८॥ भवता भद्र ! पान्थोऽहं, साधु साधु प्रबोधितः । परं निवेद्यतामग्रे, किमभूत् ? सोऽप्यथावदत् ॥४९॥ गत्वा सारपरीवारयुक्तो देवः पितुः क्रमौ । ननामैनं च वृत्तान्तं, मूलतोऽपि व्यजिज्ञपत् ॥५०॥ मोहोऽवोचत हे वत्स !, यन्मदङ्गस्य वाद्यते । पामाव्याप्तमयस्येव, तत्सारं किल सम्पति ॥५१॥ तत् त्वं तिष्ठ निजं राज्यं, सुचिरं प्रतिपालय । सन्तोषशत्रुघातार्थमहं यास्यामि सङ्गरे ॥५२॥ देवः श्रुतीः पिधायाख्यादाः! शान्तं पातकं ह्यदः । अनन्तकालसंस्थायि, तातीयं भवताद् वपुः ॥५३॥ देवेन वार्यमाणोऽपि, मोहः सर्वाभिसारतः । स्वयं चचाल भद्रेदं, राज्ञः प्रस्थानकारणम् ॥५४॥
| तत्र मध्यमबुद्धिचरि
तम्। ॥७४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org