SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगामान्तरदेशेषु, तत्र चापश्यमुल्बणम् । पुरं राजसचित्ताख्यं, समन्तात्तमसा चितम् ॥२७॥ पुरे तस्मिन्नहं यावत्, प्राप्तो राजकुलान्तिकम् । तावदुल्लसितोऽकाण्ड एव कोलाहलध्वनिः ॥२८॥ ब्रमाण्डमाण्डसंव्यापिस्फूर्जद्घणघणारवाः । लौल्यादिभूपाधिष्ठाना, मिथ्यामानादयो रथाः ॥२९॥ गर्जितर्जितजीमूता, मन्मथाद्या मतङ्गजाः । हेषापूरितदिक्चक्रा, अज्ञानाद्यास्तुरङ्गमाः ॥३०॥ अनेकरणसङ्घट्टप्रौढनियूंढसाहसाः । चेलहीतनानास्त्राश्चापलाद्याः पदातयः ॥३१।। त्रिमिर्विशेषकम् । प्रसर्पदर्पकन्दर्पपटहोघोषणात् क्षणात् । प्राचालीदचलस्थामापरमप्यमितं बलम् ॥३२॥ पृष्टो मयाऽथ विषयाभिलाषस्यैव पूरुषः । विपाकाख्यः समाचख्यौ, राज्ञः प्रस्थानकारणम् ॥३३॥ भो भद्रात्रास्ति वैरीभकुम्भनिर्भेदकेसरी । मुख्यश्चरटचक्रस्य, नरेन्द्रो रागकेसरी ॥३४॥ तस्यास्ति मन्त्री विषयाभिलाषो नाम विश्रुतः। चण्डमार्तण्डवत् प्रौढप्रतापाक्रान्तविष्टपः ॥३५॥ रागकेसरिदेवेन, स मन्त्रीशोऽन्यदा मुदा । जगदे जगदेतन्मे, वश्यं कुरु विशारद! ॥३६॥ ओमित्युक्त्वा महामन्त्री, विश्ववश्यत्वहेतवे । स्पर्शनादीनि पञ्च स्वमानुषाणि समादिशत् ॥३७॥ मन्त्रिणोचेऽन्यदा देव !, देवशासनतो मया । स्वमानुपाणि प्रेष्यन्त, जगत्साधनहेतवे ॥३८॥ तैः साधितं जगत् मायो, ग्राहितं देवशासनम् । केवलं श्रूयते कश्चित्, सस्यानामीतिसावत् ॥३९॥ तेषामुपद्रवकरः, स्फुटोद्भटपराक्रमः । सन्तोषनामा चरटः, कूटः कपटपाटवः ॥४०॥ JainEducation international For Private Personel Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy