________________
श्रीधर्मरत्नप्रकरणम्
वृद्धानुगतत्वाख्योगुणः
॥७३॥
अहो ते मित्रवात्सल्यमहो ते स्थिररागिता । अहो तव कृतज्ञत्वमहो ते साहसं दृढम् ॥१३॥ भवजन्तोः पुनरहो, क्षणरक्तविरक्तता । अहो हृदयकाठिन्यमहो मौढयमनुत्तरम् ॥१४॥ तथापि धीर ! धीरत्व, कृत्वा हित्वा तथा शुचम् । स्वास्थ्यं धेहि मुदं देहि, मम मित्रं भवाधुना ॥१५॥ स्पर्शनोऽप्याख्यदित्यस्तु, भवजन्तुरिवासि मे । ततस्तेन व्यधान्मैत्री, बालः प्रीतान्तरात्मना ॥१६॥ सदागमत्याजितत्वान्नूनं नैष शुभाशयः। मनीषिणेति विदधे, बहिवृत्या त्वसौ सखा ॥१७॥ तौ तं वृत्तान्तमाख्याता, मातापित्रोर्यथास्थितम् । ततो राजाऽभवद् भूरिहर्षदुमविहंगमः ॥१८॥ उवाचाकुशला हृष्टा, साधु साध्वसि पुत्रक! । यत् त्वया सर्वसौख्यानां, खानिरेष सखा कृतः ॥१९॥ तुषार इव पद्मस्य, स्वर्भानुरिख शीतगोः । स्पर्शनोऽयं सखा सौख्यकारणं मे सुतस्य न ॥२०॥ एवं विषादविवशाऽचिन्तयच्छुभसुन्दरी । किन्तु नाचीकथत् किश्चिद्, गाम्भीर्यात् स्वसुतं प्रति ॥२१॥ युग्मम् । स्पर्शनमूलशुद्धयर्थ, परेद्यवि मनीषिणा । आहूय रहसि प्रोक्तो, बोधो नामाङ्गरक्षकः ॥२२॥ भद्रास्य मूलशुद्धिं मे, शीघ्रं ज्ञात्वा निवेदय । यदाज्ञापयति स्वामीत्युक्त्वाऽसौ निरगात् ततः ॥२३॥ तेनात्मीयः प्रभावाख्यः, प्रैषि प्रणिधिपूरुषः । प्रस्तुतार्थाय सोऽन्येार्यात्वाऽगाद् बोधसन्निधौ ॥२४॥ ततः कृतावनामोऽसौ, बोधेनाप्रच्छि सादरम् । प्रभाव ! कथयात्मीयं, वृत्तान्तं सोऽप्यथाख्यत ॥२५॥ इतस्तदा हि निर्गत्य, बाह्यदेशेषु बभ्रमम् । मया नचापि गन्धोऽऽऽपि, प्रस्तुतार्थस्य तेष्वथ ॥२६॥
| तत्र मध्यमबुद्धिचरि
★
तम्। ॥७३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org