________________
मध्यमबुद्धिचरितं पुनरेवम्अस्त्यत्र भरतक्षेत्र, पुरं क्षितिप्रतिष्ठितम् । तत्र कर्मविलासाख्यो, राजा वीर्यनिधानभूः ॥१॥ तस्य प्रणयिनी ज्येष्ठा, यथार्था शुभसुन्दरी । अन्याऽकुशलमालाख्या, शालेव सकलापदाम् ॥२॥ तयोर्मनिषिबालाख्यौ, पुत्रौ प्रेमपरौ मिथः । स्वगेहोद्यानमन्येास्तौ गतौ क्रीडितुं मुदा ॥३॥ ताभ्यामदर्शि तत्रैकः, पुमानुद्वन्धतत्परः । बालः पाशमपास्याथ, पप्रच्छोद्धन्धकारणम् ॥४॥ अमुना प्रनितेनालमित्युक्त्वोल्लम्बयन पुनः । निवार्य सादरं पृष्टो, चालेनेदं स ऊचिवान् ॥५॥ स्पर्शनाख्यस्य मे भद्र, भवजन्तुरभूत सखा । समं सदागमेनोच्चैः, स मैत्रीमन्यदाऽकरोत् ।।६।। ततः प्रभृति जोऽसौ, त्रुटयत्प्रेमा ममोपरि । ललनातूलिकात्यागी, सुदुस्तपतपोरतः ॥७॥ अङ्गीकृतबहुक्लेशः, केशलुश्चनलालसः । भूकाष्ठशय्याशयनः, प्रान्तरूक्षाशनो भृशम् ॥८॥ युग्मम् । स्फूर्जदूर्जस्वलध्यानो, ज्ञानोत्साहितभावनः । मां मुक्त्वा मदगम्यायां, स ययौ निवृतौ पुरि ॥९॥ ततो मित्रवियुक्तेन, मयेदं भोश्चिकीर्षितम् । श्रुत्वेति तदृढप्रेमा, प्रीतो बालोऽभ्यधादिति ॥१०॥ मित्रवात्सल्ययुक्तानां, दृढसौहार्दशालिनाम् । परोपकारशीलानां, युक्तमेतद् भवादृशाम् ॥११॥
मित्रस्य विरहे स्थातुं, क्षणमप्युचितं नहि । मनस्विनामितीवाशु, दिवसेनास्तमीयते ॥१२॥
Join Education International
For Private & Personel Use Only
www.jainelibrary.org