SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् वृद्धानुगत्वाख्योगुणः १७ ॥७२॥ 'वृद्धः' प्रवयाः 'परिणतबुद्धिः' परिपक्वधिषणः परिणामसुन्दरमतिः सद्विवेकादिगुणसमन्वित इत्यर्थः । तथा चोक्तम्तपःश्रुतधृतिध्यानविवेकयमसंयमैः । ये वृद्धास्तेत्र शस्यन्ते, न पुनः पलिताकुरैः ॥१॥ सत्तत्वनिकषोद्भूतं, विवेकालोकवदितम् । येषां बोधमयं तत्त्वं, ते वृद्धा विदुषां मताः ॥२॥ प्रत्यासत्तिं समायातैर्विषयैः स्वान्तरञ्जकैः । न धैर्य स्खलितं येषां, ते वृद्धाः परिकीर्तिताः ॥३॥ न हि स्वप्नेऽपि सञ्जाता, येषां सद्वृत्तवाच्यता । यौवनेऽपि मता वृद्धास्ते धन्याः शीलशालिनः ॥४॥ किंचप्रायः शरीरशैथिल्यात्, स्यात् स्वस्था मतिरङ्गिनाम् । तरुणोपि क्वचित् कुर्यात् , दृष्टतत्त्वोऽपि विक्रियाम् ॥५॥ वार्द्धकेन पुनर्धत्ते, शैथिल्यं हि यथा यथा । तथा तथा मनुष्याणां, विषयाशा निवर्त्तते ॥६॥ हेयोपादेयविकलो, वृद्धोऽपि तरुणाग्रणीः। तरुणोऽपि युतस्तेन, वृद्धवृद्ध इतीरितः ॥७॥ इति ॥ स एवंविधो वृद्धः 'पापाचारे' अशुभकर्मणि प्रवर्तते नैव, स हि किल यथावस्थिततत्त्वमवबुध्यत इति । यत एव वृद्धो नाहित- हतौ प्रवर्तते ततो वृद्धमनुगच्छति यस्तन्मतानुसारितया स वृद्धानुगः, सोऽप्येवमेव पापे न प्रवर्तते इति भावः । मनीषिवृद्धानुगमध्यमवुद्धिवत् । केन हेतुना ? इत्याह-'संसर्गकृताः' साङ्गत्यजनिता गुणा येन कारणेन प्राणिनां स्युः, अत एव प्रोक्तमागमे उत्तमगुणसंसग्गी, सीलदरिदं पि कुणइ सीलहूं । जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेइ ॥ त्ति तत्र मध्यमबुद्धिचरि तम् । एष प्रतिमागमे- ॥७२॥ पे कुणइ सीलहूं । जह मसाजानता गुणा येन कारणेन पाणिनां माइति भावः । मनीषिवृद्धानुग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy