________________
जो पुण तेसि कणिट्ठो, गुरुभाया तस्स नियगणो सव्वो । बहुपणयपरायणमाणसेण गुरुणा समुवणीओ ॥ ५३ ॥ एवं जहजुग्गनिउंजणेण आराहणं परं पत्तो । सो सूरी तह गच्छो, सव्वो गुणभायणं जाओ ॥ ५४ ॥
किर दीहदं सिगुणसंगएण धणसिट्टिणा इहं पगयं । भवियमइबोहणत्थं, पयंपिया उवणयविभासा ॥५५॥ इति फलमकलङ्कश्लोकमस्तोकमेतद्, गुणिन इह धनाख्यश्रेष्ठिनः संनिशम्य । गुणममलमुदारं दीर्घदर्शित्वमेव, श्रयत भविकलोकाः ! किं बहुन्याकृतेन १ ॥ ५६ ॥ इति घनश्रेष्ठिवृत्तकं समाप्तम् ।
व्याख्यातः सुदीर्घदर्शीति पञ्चदशो गुणः, साम्प्रतं विशेषज्ञ इति षोडशं गुणं प्रचिकटयिषुराह— वत्थूणं गुणदोसे, लक्खेइ अपक्खवायभावेण । पाएण विसेसन्नू, उत्तमधम्मारिहो तेण ॥२३॥ 'वस्तूनां' द्रव्याणां सचेतनाचेतनानां धर्माधर्महेतूनां वा गुणान् दोषांश्च 'लक्षयति' जानाति 'अपक्षपातभावेन' माध्यस्थ्यसुस्थचेतस्तया । पक्षपातयुक्तो हि दोषानपि गुणान् गुणानपि दोषानध्यवस्यति समर्थयति च ।
Jain Education International
उक्तं च
आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ अतः ‘प्रायेण' बाहुल्येन ‘विशेषज्ञः' सारेतरवेदी 'उत्तमधर्माः' प्रधानधर्मोचितो भवति, सुबुद्धिमन्त्रिवदिति । तत्कथा पुनरेवम्
For Private & Personal Use Only
● www.jainelibrary.org