________________
सकलमपि सहोदरैर्वसति ? कथमेकेन दर्वीकरेण सर्वेऽपि ते एकहेलं दष्टाः कथं चैक एव महानरेन्द्रवृन्दारकः सकलजननिर्विषत्वकरणे समर्थः कथमेतादृशो विषनिर्घातनविधिरिति । ततः प्रोक्तं गुरुणा-महाराज ! नेदं बहिरङ्गं वचनमात्रम् , किन्तु भव्यजनभववैराग्यकारणं समस्तमप्यन्तरङ्गभावार्थकलितम् ।
तथाहिनैरयिकादिभवानामावों येन तत्र नरनाथ ! । संसारस्तेनेह, न्यगादि नगरं भवावर्त्तम् ॥ १॥ कर्मपरिणामराजः, सर्वेषां कालपरिणतिसमेतः । जनको येन ततोऽमी, जीवाः सर्वेऽपि सोदर्याः ॥२॥ अत्र भवावर्तपुरे, त एव निवसन्त्यनन्तका जीवाः । एकैकविषधरेण च, ते दष्टा येन शृणु तच्च ॥३॥ अष्टमदस्थानफणो, दृढरूढकुवासनामलिनदेहः । रत्यरतिचपलरसनो, ज्ञानावरणादिडिम्भयुतः॥४॥ कोपमहाविषकण्टकविकरालो द्वेषरागनयनयुगः । मायागृद्धिमहाविषदाढो मिथ्यात्वखरहृदयः॥५॥ हास्यादिधवलदशनः, सपरिकरत्रिभुवनं दशति निखिलम् । कृतचित्तबिलनिवासो, मोहमहाविषधरो भीमः ॥६॥ दष्टाश्च तेन जीवा, मूच्छितवच्चेतयन्ति न हि कार्यम् । मीलन्ति लोचनानि, क्षणमात्रसुखानुभवनेन ॥७॥ अङ्गैरत्यधरैरिख, संचार्यन्ते च सेवकजनेन । लग्नाः करे न देवं, न गुरुं च मुणन्ति गतमतयः ॥ ८॥ किं मम युक्तमयुक्तं, किं वा मम कोऽहमिति तथाऽऽत्मानम् । न विदन्ति हितमपि तथा, शृण्वन्ति न गुरुभिरुपदिष्टम् ॥९॥ समविषमाणि न सम्यग, वीक्षन्ते नैव गुरुजनस्यापि । विदधत्यौचित्यं किल, मूका इव नालपन्ति परम् ॥१०॥
Jain EducaticalH
For Private Personel Use Only
Hjainelibrary.org