SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् गुणरागगुण: ॥५८॥ मप्यलीकम्, न ग्रहीतव्यमदत्तम् , पालयितव्यं नवगुप्तिसनाथमजिह्म ब्रह्मचर्यम् , मोक्तव्यः स्वदेहेऽपि प्रतिबन्धः, वर्जनीयं रजन्यां चतुर्विधमप्याहारजातम् , वस्तव्यं स्त्रीपशुपण्डकविरहितवसतिश्मशानगिरिगह्वरशून्यसदनकाननादिषु, कर्त्तव्यं भूमिकाष्ठशय्याशयनम् , परिभ्रमितव्यं युगमात्रदत्तलोचनैः, जल्पनीयं हितमितागर्हितनिरवद्यं वचः, भोक्तव्यमकृताकारितमननुमतमसंकल्पित पिण्डजातम् , निवारणीयं सदाऽप्यकुशलचिन्तायां मानसम् , परिवर्जयितव्याः सर्वथा राजादिकथाः, परित्यक्तव्यो दूरमकल्याणमित्रसम्पर्कः, परिहरणीयः सर्वेण कुगारुडिकसम्बन्धः, कर्त्तव्यानि यथाशक्ति सुदुश्चरतपश्चरणानि, बम्भ्रमितव्यमनियतविहारेण, सोढव्याः सम्यक् परीषहोपसर्गाः, तितिक्षणीयानि च दुर्भाषितानि, भवितव्यं सर्वसहयेव सर्वसहैः, किंबहुना ? क्षणमप्यस्यां क्रियायां न प्रमाद्यम् , तथा कर्तव्यो मदुपदिष्टस्य मन्त्रस्य निरन्तरं जापः, ततो निवर्तन्ते पूर्ववर्णितविषविकाराः, उन्मीलन्ति निर्मलबुद्धयः, किं बहुभाषितया? प्राप्यते परम्परया तदपि परमानन्दपदमिति । एवं च तस्य वचनं महाराज ! कैश्चन विषावेशविवशैन श्रुतमेव, यैरपि श्रुतं तेषामप्येके उपहसन्ति, अन्ये अवधीरयन्ति, अपरे निन्दन्ति, केचन दुर्विदग्धत्वेन स्वशिल्पिकल्पितानल्पकुविकल्पैः प्रतिघ्नन्ति, एके न श्रद्दधति, अपरे श्रद्दधाना अपि नानुतिष्ठन्ति, केचित् पुनर्लघुकर्माणो महाभागा युक्तियुक्तमिति श्रद्दधतेऽनुतिष्ठन्ति च । ततो मयाऽपि महाराज! विषधरवेदनानिर्विण्णेनामृतमिव प्रतिपेदे तद्वचः, उररीकृतः सबहुमानं तत्समार्पतो वेषः, प्रारेभे चेयमतिदुष्करा क्रिया, तदेतन्मम व्रतग्रहणे कारणं समजनिष्ट । तदाकानवगतपरमार्थेन विजयसेनपार्थिवेन प्रणम्य पृष्टो भूयोऽपि मुनीन्द्रः-भगवन् ! कथं तत्तादृशविस्तारं भवावर्त्तनगरं तत्र पुरन्दर राजर्षिकथा ॥५८॥ in EU For Private Personal Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy