________________
किं युष्माभिर्भगवनिति सत्यपि रूपलवणिमप्रसरे । नृपवैभवोचितैरपि, सुदुष्करं व्रतमिदं जगृहे १ ॥१२७॥ जगदे जगदेकहितेन सूरिणा शृणु समाहितो भूप! । सुजनहृदिवातिविस्तरमस्तीह पुरं भवावर्तम् ।।१२८॥ तस्मिन्नहं कुटुम्बी, संसारिकजीवनामकोऽभूवम् । सोदर्यैश्च ममैव हि, तन्नगरं वसति सकलमपि ॥१२९||
तत्र च वयं वसन्तः, सर्वेऽप्येकेन निष्ठुरविषेण । निःशूकदन्दशूकेन नवधनाभेन किल दष्टाः ॥१३०॥ तदनु विषमविषभावितत्वेन समागच्छत्यस्माकमतुच्छमूर्छा, निमीलन्ति लोचनानि, विगलन्ति मतयः, न बुध्यते कार्यादिविभागः, न परिज्ञायते निजमपि स्वरूपम् । तथाऽस्माभिर्न गण्यन्ते हितोपदेशाः, न दृश्यन्ते समविषमाणि, न विधीयन्ते औचित्यप्रतिपतयः, नालप्यन्ते समीपस्थान्यपि स्वजनवृन्दानि, केचन काष्ठवन्निश्चेष्टाः सञ्जाताः, केचिदव्यक्तशब्देन घुघुरायमाणा लोलुख्यन्ते महीपीठे, अपरे शून्यहृदया इतस्ततो बम्भ्रम्यन्ते, अन्ये तीव्रतरविषप्रसरसम्भूतप्रभूतदाहवेदनापरिभूता निपतन्त्यतिप्रचुरदुःखदन्दोलौ, केचित् पुनरारसन्त्यव्यक्तवाग्भिः, न शक्नुवन्ति जल्पितुमपि स्फुटवचनैः, केचन पुनः कदाचन स्खलन्ति, कदाचिनिपतन्ति, कदाचिन्मछन्ति, कदाचन स्वपन्ति कदाचिज्जाग्रति क्षणमेकं पुनश्च स्वपन्ति विषावेगात् , अन्ये पुनः सदैव निर्भरं स्वपन्ति, न किमपि चेतयन्ते।
एवं च तस्मिन् सकलेऽपि पुरे विषधरविषवेदनाभिभूते समागादेको महानुभागो विनीतविनयविनेयवृन्दपरिवारो महानरेन्द्रः। तच्च तथाविधं पुरमालोक्य समुत्पन्नपुण्यकारुण्येन तेन वभाषिरे लोकाः-यथा भो भो लोकाः ! मोचयामि वः सर्वानप्येतस्या महोरगविषवेदनाया यदि मयोपदिष्टां क्रियामाचरत । तैरुक्तम्-कीदृशी सा ? । गारुडिकक्रियापरिवृढःप्रोवाच-अहो लोकाः! प्रथममेव तावद् मामकीनशिष्यसन्दोहवेषवत् प्रतिपत्तव्यो वेषः, रक्षणीयाः सकलत्रिभुवनोदरविवरवर्तिनः पाणिनः, न वक्तव्यं सूक्ष्म
For Private 3 Personal Use Only
Sainelibrary.org
Jain Educati