SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् ५२ गुणर... गुणः १२ इत्येवमुच्चैस्तरबोधिलाभमुख्यं फलं सोमवसोविशिष्टम् । माध्यस्थ्यभाजः परिभाव्य भव्या भव्येन भावेन तदेव धत्त ॥६५॥ इति सोमवसुकथा समाप्ता। उक्तो मध्यस्थसोमदृष्टिरित्येकादशो गुणः, इदानीं द्वादशं गुणरागिगुणमाह गुणरागी गुणवंते, बहु मन्नइ निग्गुणे उवेहेइ । गुणसंगहे पवत्तइ, संपत्तगुणं न मइलेइ ॥१९॥ ____ गुणेषु-धार्मिकलोकभाविषु रज्यतीत्येवशीलो 'गुणरागी' गुणभाजो यतिश्रावकादीन्'बहु मन्यते' मनःप्रीतिभाजनं करोति, यथा-अहो धन्या एते, सुलब्धमेतेषां मनुष्यजन्मेत्यादि । तर्हि निर्गुणान्निन्दतीत्यापन्नम्, यथा देवदत्तो दक्षिणेन चक्षुषा पश्यतीत्युक्ते वामेन न पश्यतीत्यवसीयते । तथा चाहुरेके'शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि' इति । न चैतदेवं धार्मिकोचितमित्याह 'निर्गुणानुपेक्षते' असंक्लिष्टचित्ततया तेषामपि निन्दा न करोति, यतः स एव मालोचयति"सन्तोऽप्यसन्तोऽपि परस्य दोषा,नोक्ताः श्रुता वा गुणमावहन्ति। वैराणि वक्तुः परिवर्द्धयन्ति,श्रोतुश्च तन्वन्ति परां कुबुद्धिम्॥१॥ Jain EducationlineCHHati For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy