________________
Jain Educatio
निरूपितः सुदाक्षिण्य इत्यष्टमो गुणः ॥८॥ सम्प्रति लज्जालुरिति नवमं गुणं व्याख्यानयन्नाह
लज्जालुओ अकज्जं, वज्जइ दूरेण जेण तणुयं पि । आयरइ सयायारं, न मुयइ अंगीकयं कहवि ॥ १६ ॥
'लज्जालुओ' ति लज्जावान् 'अकार्य' कुत्सितकृत्यम् । नञः कुत्सनार्थत्वात् । 'वर्जयति' परिहरति 'दूरेण' विप्रकर्षेण 'येन' हेतुना, तेन धर्माधिकारीति प्रकृतेन योगः । 'तनुकमपि' स्तोकमपि आस्तां बह्निति ।
तथा चोक्तम्
"अवि गिरिवरगरुयदुरंतदुक्खभारेण जंति पंचतं । न उणो कुणति कम्मं, सप्पुरिसा जं न कायव्वं ॥ " इति ॥
तथा 'आचरति' अनुतिष्ठति 'सदाचारम्' शोभनव्यवहारम्, तस्याऽलआहेतुत्वाद् । तथा 'न' नैव, मुञ्चति' त्यजति 'अङ्गीकृतम्' कक्षीकृतं प्रतिज्ञाविशेषमिति योगः । 'कथमपि' स्नेहबलाभियोगादिना प्रकारेणापि, लआहेतुत्वादारब्धपरित्यागस्य ।
उक्तं च
दूरे ता अमजणो, अंगे च्चिय जाई पंच भूयाई । तेसिं पि य लज्जिज, पारद्धं परिहरंतेहिं ॥ प्रायः सुकुलोत्पन्न एवंविधो भवति । विजयकुमारवत् ।
१८
For Private & Personal Use Only
Xainelibrary.org