SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ roofo *oogoogolorgeorgeogarlgolagacarr अगस्त्यसिंहसूरिकृताद् भिन्न एवेति न ज्ञायते ‘क एते अन्याचार्याः ?' इति । किञ्च श्रीहरिभद्रसूरिनिर्दिष्टोऽन्याचाीयमतः श्रीअगस्त्यसिंहचूर्णी वृद्धविवरणे च निर्दिष्टो न दृश्यते । श्रीहरिभद्रसूरिपादोल्लिखितः पदविभागभिन्नतावेदकस्तवृत्तिगतः पाठोऽयम् "तथा 'प्रत्येकं पुण्य-पापम्' इति माता-पितृ-कलत्रादिनिमित्तमप्यनुष्ठितं पुण्य-पापं 'प्रत्येकं प्रत्येकं' पृथक् पृथग् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव। अन्ये तु व्याचक्षते—'सोपक्लेशो गृहिवासः' इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगाः' इति चतुर्दशं स्थानम् १४ प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५ । शेषाण्यभिधीयन्ते तथा 'अनित्यं खलु' अनित्यमेव नियमतः 'भो!' इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम् , तदलं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति षोडशं स्थानम् १६ । तथा 'बहु च खलु भोः! पापं कर्म प्रकृतम्' बहु च, चशब्दात् क्लिष्टं च, खलुशब्दोऽवधारणे, 'बढेव पापं कर्म' चारित्रमोहनीयादि 'प्रकृतं' निर्वर्तितम् , मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् १७। तथा 'पापानां च' इत्यादि, ‘पापानां च' अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च ‘खलु भोः! कृतानां कर्मणां खलुशब्दः कारितानुमतविशेषणार्थः, 'भोः' इति शिष्यामन्त्रणे, 'कृतानां' मनो-वाक्-काययोगैरोघतो निर्वतिताना 'कर्मणां ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु 'दुश्चरितानां' प्रमाद-कषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात् , दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् , एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शना-ऽविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् , दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् , इह च दुश्चरितानि मद्यपाना-ऽश्लीला-ऽनृतभाषणादीनि, दुष्पराकान्तानि तु वध-बन्धादीनि, तदमीषामेवम्भूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति | वाक्यशेषः, किम् ? 'मोक्षो भवति' प्रधानपुरुषार्थों भवति, 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत् , तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात् , 'तपसा वा क्षपयित्वा' अनशन-प्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिवन्धनपरिक्रशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपक्षिप्तव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८॥" दशवै. हरिभद्रवृत्तिः पत्र २७३-७४] उपर्युल्लिखितवृत्त्यंशसमीक्षणेन एतदपि प्रतिभाति, यत्-श्रीमतां हरिभद्रसूरिपूज्यानां वृद्धविवरणकृद्विहितपदविभागानुसारेण व्याख्यानेऽपि नैव सम्यक्सन्तोष इति, अत एव अन्याचाीयपदविभागनिर्देशव्याजेनातनपदव्याख्यानानुसन्धानमिति ॥ o o lhirof8800180%80-80-8080-80808080880000808:08. tkool 80-8arliamoradongreio दका०६३ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy