SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥८९॥ ००००००००००००००००००००००००००००००००००००० ज्ञानम् , इति न ज्ञानस्य ज्ञानाऽन्तरज्ञेयता युक्तिं सहते । इति काव्यार्थः ।। १२ ॥ ____ अथ ये ब्रह्माऽद्वैतवादिनोऽविद्याऽपरपर्यायमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते, तन्मतमुपहसन्नाह-- माया सती चेद् द्वयतत्त्वसिद्धिरथाऽसती हन्त ! कुतःप्रपञ्चः?। मायैव चेदर्थसहा च, तत्किं माता च वन्ध्या च भवत्परेषाम् ॥१३॥ व्याख्या- तैर्वादिभिस्तात्त्विकाऽऽत्मब्रह्मव्यतिरिक्ता या माया-अविद्या प्रपञ्चहेतुः परिकल्पिता, सा सद्रूपा असद्रूपा वा द्वयी गतिः । सती-सद्रूपा चेत , तदा द्वयतत्त्वसिद्धिः-द्वाववयवो यस्य तद् द्वयं, तथाविधं | यत् तत्त्वं-परमार्थः, तस्य सिद्धिः । अयमर्थः-एक तायत् त्वदभिमतं तात्त्विकमात्मब्रह्म, द्वितीया च माया तत्त्वरूपा; सद्रूपतयाऽङ्गीक्रियमाणत्वात् । तथाचाद्वैतवादस्य मूले निहितः कुठारः। अथेति--पक्षान्तरद्योतने । यदि असती- गगनाम्भोजवदवस्तुरूपा सा माया, ततः, हन्त ! इत्युपदर्शने आश्चर्य वाः कुतः प्रपञ्चः?- अयं त्रिभुवनोदरविवरवर्तिपदार्थसार्थरूपप्रपञ्चः कुतः?, न कुतोऽपि सम्भवीत्यर्थः; मायाया अवस्तुत्वेनाभ्युपगमात. अवस्तुनश्च तुरङ्गशृङस्येव सर्वोपाख्याविरहितस्य साक्षाक्रियमाणेशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजा-१ लादौ, मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम् , अत्र तु तदुपलम्भात् कथं मायाव्य ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy