SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥९०॥ पदेशः श्रद्धीयताम् ? | अथ मायाsपि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत्, तर्हि स्ववचनविरोधः नहि भवति माता च वन्ध्या चेति । एनमेवार्थ हृदि निधायोत्तरार्धमाह - मायैव चेदित्यादि । ( अत्रैवकारोऽप्यर्थः, अपिश्च समुच्चयार्थः, अग्रेतनचकारश्च तथा; उभयोश्च समुच्चयार्थयोर्यौगपद्यद्योतकत्वं प्रतीतमेवः यथा रघुवंशे - “ ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः" इति ) तदयं वाक्यार्थः- माया च भविष्यति, अर्थसहा च भविष्यति, अर्थसहा - अर्थक्रिया समर्थपदार्थोपदर्शनक्षमा, चेच्छन्दोऽत्र योज्यते - इति चेत्; एवं परमाशङ्कय तस्य स्ववचनविरोधमुद्भावयति तत्किं भवत्परेषां माता च वन्ध्या च १ । किमितिसम्भावने । सम्भाव्यते एतत् भवतो ये परे - प्रतिपक्षाः, तेषां भवत्परेषां भवद्व्यतिरिक्तानां भवदाज्ञापृथभूतत्वेन तेषां वादिनां यन्माता च भविष्यति, वन्ध्या च भविष्यतीत्युपहासः । माता हि प्रसवधर्मिणी वनितोच्यते ; वन्ध्या च तद्विपरीता । ततश्च माता चेत् कथं वन्ध्या ?; वन्ध्या चेत् कथं माता ? | तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः । I व्यासार्थस्त्वयम् - ते वादिन इदं प्रणिगदन्ति- तात्त्विकमात्मब्रह्मैवास्ति - Jain Education International " सर्व स्खल्विदं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत्पश्यति कथन " ।। १ ।। इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः प्रतीयमानत्वात् यदेवं तदेवम्, यथा शुक्तिशकले , For Private & Personal Use Only 118011 www.jainelibrary.org.
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy