SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्याद्० ||८८|| यद्व्यवच्छेदाय प्रमेयत्वादिति क्रियेत, भवन्मते तदन्यज्ञानस्य सर्वस्य ममेयत्वात् । अप्रयोजकश्चायं हेतु :- सोपाधित्वात् ; साधनाव्यापकः साध्येन समव्याप्तिश्व खलु - उपाधिरभिधीयते; तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकायाहारपरिणामवत्; उपाधिश्वात्र जडत्वम् । तथाहि ईश्वरज्ञानाऽन्यत्वे प्रमेयत्वे च सत्यपि यदेव जडं स्तम्भादि तदेव स्वस्मादन्येन प्रकाश्यते । स्वप्रकाशे परमुखप्रेक्षित्वं हि जडस्य लक्षणम् ; न च ज्ञानं जडस्वरूपम् ; अतः साधनाव्यापकत्वं जडत्वस्य । साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव जाड्यं विहाय स्वप्रकाशाभावस्य तं च त्यक्त्वा जाड्यस्य क्वचिदप्यदर्शनात् ; इति । यच्चोक्तं “ समुत्पन्नं हि ज्ञानमेकात्मसमवेतम् " इत्यादि । तदप्यसत्यम् ; इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणत्वाद् इति । आशूत्पादात् क्रमानुपलक्षणमुत्पलपत्रशतव्यतिभेदवद्, इति चेत् । तन्नः जिज्ञासान्यवहितस्यार्थज्ञानज्ञानस्योत्पादप्रतिपादनात् । नच ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते; अजिज्ञासितेष्वपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः ; नचार्थज्ञानमयोग्यदेशम् ; आत्मसमवेतस्यास्य समुत्पादात् । इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । अथोत्पद्यतां नामेदं को दोष:, इति चेत्; नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः तत्रापि चैवमेवायम् । इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापाराद् न विषयान्तरसञ्चारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज्ञानान्तरव्यापारम्, यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहिधारावाहिज्ञानप्रबन्धस्यान्त्यज्ञानम् । ज्ञानं च विवादाध्यासितं रूपादि Jain Education International For Private & Personal Use Only ॥८८॥ www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy