________________
स्याद्०
॥८
॥
द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाऽनाश्वासप्रसङ्गः । अपौरुषेयश्चेत्- न संभवत्येवः स्वरूपनिराकरणात् , तुरङ्गशृङ्गवत् । तथाहि-" उक्तिर्वचनमुच्यते " इति चेति पुरुषक्रियाऽनुगतं रूपमस्य; एतक्रियाऽभावे कथं भवितुमर्हति । न चैतत् केवलं कचिद् ध्वनदुपलभ्यते; उपलब्धावप्यदृश्यवक्त्राऽऽशङ्कासंभवात् । तस्मात् वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात् , कुमारसंभवादिवचनवत् , वचनात्मकश्च वेदः। तथा चाहुः
" ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं वः।
पुंसश्च ताल्वादिरतः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ?" ॥१॥ इति । __ श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गीक्रियते; अन्यथाऽग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य-श्वमांस भक्षयेदिति किं नार्थः?, नियामकाऽभावात् । ततो वरं मूत्रमपि पौरुषेयमभ्यु-10 पगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याप्रामाण्ये, तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च- हिंसाऽऽत्मको यागश्राद्धाऽऽदिविधिः प्रामाण्यविधुर एवेति ।
अथ योऽयं 'न हिंस्यात् सर्वभूतानि' इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः; वेदविहिता तु हिंसा अपवादपदम् विशेषतो विधिरित्यर्थः। ततश्चाऽपवादेनोत्सर्गस्य बाधितत्वाद्-न श्रौतो हिंसाविधि>षाय; " उत्सर्गापवादयोरपवादो विधिबलीयान्" इति न्यायात् । भवतामपि |
१ 'च' इत्यापि पाठः।
॥८
॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org