SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥७९॥ यूथिनः पठन्ति - " मृतानामपि जन्तूनां श्राद्धं चेद् तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संवर्द्धयेच्छिखाम् ॥ १॥ इति । कथं च श्राद्धविधानाद्यर्जितं पुण्यं तेषां समीपमुपैतुः तस्य तदन्यकृतत्वात्, जडत्वाद्, निश्चरणत्वाच्च । अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्नः तेन तज्जन्यपुव्यस्य स्वाध्यवसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि इति- विचाल एव विलीनं त्रिशङ्कुज्ञातेन, किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विमोपभुक्तं तेभ्य उपतिष्ठत इति चेत्, क इवैतत्प्रत्येतु ?; विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते; भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात्, विप्राणामेव च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगार्थ्याद् भक्षयन्तः प्रेतप्रायाः इति मुधैव श्राद्धादिविधानम् । यदपि च गयाश्राद्धादियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भक-विभङ्गज्ञानि व्यन्तराऽऽदिकृतमेव निश्श्रेयम् । यदप्युदितम् - आगमचात्र प्रमाणमिति । तदप्यप्रमाणम् ; स हि - पौरुषेयो वा स्यात्, अपौरुषेयो वा ? | पौरुषेयश्चेत्- सर्वज्ञकृतः, तदितरकृतो वा । आद्यपक्षे- युष्मन्मतव्याहतिः । तथा च भवत्सिद्धान्तः" अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः " ॥ १ ॥ १ अभ्यन्तर एव । Jain Edu International For Private & Personal Use Only www ॥७९॥ library.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy