SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥७९॥ यूथिनः पठन्ति - " मृतानामपि जन्तूनां श्राद्धं चेद् तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संवर्द्धयेच्छिखाम् ॥ १॥ इति । कथं च श्राद्धविधानाद्यर्जितं पुण्यं तेषां समीपमुपैतुः तस्य तदन्यकृतत्वात्, जडत्वाद्, निश्चरणत्वाच्च । अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्नः तेन तज्जन्यपुव्यस्य स्वाध्यवसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि इति- विचाल एव विलीनं त्रिशङ्कुज्ञातेन, किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विमोपभुक्तं तेभ्य उपतिष्ठत इति चेत्, क इवैतत्प्रत्येतु ?; विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते; भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात्, विप्राणामेव च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगार्थ्याद् भक्षयन्तः प्रेतप्रायाः इति मुधैव श्राद्धादिविधानम् । यदपि च गयाश्राद्धादियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भक-विभङ्गज्ञानि व्यन्तराऽऽदिकृतमेव निश्श्रेयम् । यदप्युदितम् - आगमचात्र प्रमाणमिति । तदप्यप्रमाणम् ; स हि - पौरुषेयो वा स्यात्, अपौरुषेयो वा ? | पौरुषेयश्चेत्- सर्वज्ञकृतः, तदितरकृतो वा । आद्यपक्षे- युष्मन्मतव्याहतिः । तथा च भवत्सिद्धान्तः" अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः " ॥ १ ॥ १ अभ्यन्तर एव । Jain Edu International For Private & Personal Use Only www ॥७९॥ library.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy