SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥७२॥ न खलु वेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं शङ्कनीयम् ; तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति । तदेतद् न दक्षाणां क्षमते क्षोदम् ; वैषम्येण दृष्टान्तानामसाधकतमत्वात् । अयः पिण्डादयो हि पत्राऽऽदिभावान्तराऽऽपन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कारविधिनाऽपि विशस्यमानानां पशूनां काचिद् वेदनाऽनुत्पादादिरूपा भावान्तराऽऽपत्तिः प्रतीयते । अथ तेषां बधाऽनन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेत्- किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम् - तस्य संबद्धवर्तमानाग्राहकत्वात् – “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति वचनात् । नाप्यनुमानम् - तत्प्रतिबद्धलिङ्गानुपलब्धेः । नाप्यागमः-तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तदूषणेनैव गतार्थत्वात् । अथ भवतामपि जिनाऽऽयतनाऽऽदिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते इति कल्पना; तथा अस्माकमपि किं नेष्यते । । वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्वि कल्पं तत्रापि भावात् । नैवम् ; परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमित सुकृतसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तुसत्स्वपि तत्तच्छ्रुतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रति १ प्रत्यवयवम् | Jain Educationmational For Private & Personal Use Only www ॥७२॥ brary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy