________________
स्याद्० ॥७२॥
न खलु वेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं शङ्कनीयम् ; तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति । तदेतद् न दक्षाणां क्षमते क्षोदम् ; वैषम्येण दृष्टान्तानामसाधकतमत्वात् । अयः पिण्डादयो हि पत्राऽऽदिभावान्तराऽऽपन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कारविधिनाऽपि विशस्यमानानां पशूनां काचिद् वेदनाऽनुत्पादादिरूपा भावान्तराऽऽपत्तिः प्रतीयते । अथ तेषां बधाऽनन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेत्- किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम् - तस्य संबद्धवर्तमानाग्राहकत्वात् – “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति वचनात् । नाप्यनुमानम् - तत्प्रतिबद्धलिङ्गानुपलब्धेः । नाप्यागमः-तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तदूषणेनैव गतार्थत्वात् ।
अथ भवतामपि जिनाऽऽयतनाऽऽदिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते इति कल्पना; तथा अस्माकमपि किं नेष्यते । । वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्वि कल्पं तत्रापि भावात् । नैवम् ; परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमित सुकृतसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तुसत्स्वपि तत्तच्छ्रुतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रति
१ प्रत्यवयवम् |
Jain Educationmational
For Private & Personal Use Only
www
॥७२॥
brary.org