SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ काचातकाः षड्दर्शनीतार्किकतर्कतर्कणकर्कशा जञ्जपूकविवादिवादिकपूत्कारकारणचणा नागेन्द्रगच्छसागरसमुल्लासनसोमाः श्रीमल्लिषेणसूरयः कदा कं विषयं भूषयांबभूवांसः ?, इत्यालोकनप्रवृत्तानां स्पष्टमेव लोकयति तद्विहितैतदग्रन्थप्रशस्तिः, तथाहि नागेन्द्रगच्छगोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ॥ ६ ॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरिय मनुरविमितशाकाब्दे दीपमहसि शनौ ॥ ७॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावृत्तसतु सतां वृत्तिः स्याद्वादमञ्जरी ।। ८ ॥ बिभ्राणे किल निर्जयाजिनतुलां श्रीहेमचन्द्रप्रभौ तब्धस्तुतिवृत्तिनिर्मितिमिषाद्भक्तिमया विस्तृता । निर्णेतुं गुण-दूपणे निजगिरां तन्नार्थये सजनान् तस्यास्तत्त्वमकृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः ॥ ९ ॥ इमां च ते श्रीशाकाब्दे १२१४ वत्सरे, वैक्रमे तु १३४९ वर्षे श्रीवीरनिर्वाणपर्वणि शनिदिने निर्ममिवांसः । | स एव च तेषां सत्तासमय इति स्फुटं पाठकहृदयमवगाहते । शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवानुद्यत्तार्किकतर्ककर्कशमतिः सिद्धान्तशुद्धान्तरः । श्रीधर्माऽभ्युदये कविः प्रविलसद्दादिगोत्रे पविस्तामेतामुदयप्रभोऽस्य गणभृद् वृति व्यधात् कर्णिकाम् ॥ १३ ॥ सेयं पुरे धवल के तिलके धरित्र्यां मन्त्रीशपुण्यवशतो बसतो वसाद्भः । वर्षे निध्यनयनेन्दुमिते (१२९९) वितेने श्लोकैः शिवोदधिशिवः प्रमितेऽद्भुतधीः ॥ २१॥ ॥ २॥ Jain Educ h temational For Private & Personal Use Only wwsiolibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy