SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अस्या विधाने भूरिसूरिसूराः श्रीजिनप्रभसूरयः सहायतामातेनुः । इयं च सुरभिस्याद्वादमञ्जरी महामोहनीयकर्मविद्धमर्मचर्मधर्माऽधर्मविवेकाकुशलसंततसतमसतामसैः कणादाक्षपाद-वेदान्त-जैमिनि-तथागततनुजैविस्तीर्यमाणं नरककुम्भीपाकपरिणामं महामिथ्यात्वात्मदुर्गन्धमपसार्य जगत्कान्तानेकान्तवादसरससुवासं वितन्वाना विजयते । इमां च विशदयितुं पुस्तकचतुष्टयीं लब्धवन्तौ, तद्दातृन् नामग्राहं निर्दिश्य तद्ऋणितां मन्यावहे । पुस्तकमेकं शास्त्रविशारदजैनाचार्यास्मद्गुरुश्रीविजयधर्मसूरीणां नाऽत्यशुद्धम् । पुस्तकद्वयं तु पंन्यासपदभूषितश्रीवीरविजयानां प्राचीनं शुद्धं च । पुस्तकमेकं तु यतिवर्याणां श्रीनेमिचन्द्राणां शुद्धम् । - १ एते चाचार्याः प्रभावकप्रवरास्तार्थकल्पादिग्रन्थगुम्फकाश्च, तेषां समयश्च तैरेव निजनिामतायामजितशान्तिस्तववृत्तौ संदर्शितः संवविक्रमभूपतेः शर-ऋतू-दर्चिः-शशाङ्कमिते (१३६५) पौषस्याऽसितपक्षभाजि शनिना युक्ते द्वितीयातिथौं । श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पंधयः पुर्या दाशरथेजिनप्रभगुरुजग्रन्थ टीकामिमाम् ॥ १ ॥ एतेन श्रीमल्लिषण-जिनप्रभयोः स्पष्टमेव समानकालिकत्वम् । Jain Education in temational For Private & Personal Use Only www.jaifielibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy