SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। अस्याश्च स्याद्वादमञ्जर्या मूलभूताया अन्ययोगव्यवच्छेदनामधेयाया भगवरस्तुतेः स्रष्टारश्चातुर्वैद्यस्रष्टारों जनित- | जगदमन्तुजन्तुजाताभयजातयो जिनशासनभासनाद्भतप्रभूतभूतप्रभावनाप्रभावस्मारितप्रभावकप्रभुजिनपतिमतिश्रीआर्यवज्रस्वामिप्रभृतयस्त्रिलोकीलोकाविगीतगीतस्फीतकीर्तिस्फूर्तिततयो राजगुरबो योगिधुरंधरा जिनतुलां बिभ्राणाः प्रचण्डाखण्डपण्डामण्डनमण्डितपण्डितवावदूकवादिवदनबन्धनघनधना लोकोत्तरचरिताः कलिकालसर्वज्ञाः श्रीहेमचन्द्रप्रभुचरणाः । तेषां चात्राऽसंख्यावत्संख्यावत्पर्षत्सु प्रशस्यमानयशसां सकलक्षोण्यामाबालगोपालप्रसिद्धोदन्तत्वादेव ते च के?' इति शङ्कोत्थानाऽभावात् , अस्यामेव ग्रन्थमालायां प्रकटयिष्यमाणतनिर्मित-अभिधानचिन्तामणिप्रस्तावनायां प्रस्तोप्यमाणत्वाच्च नाऽनधिकमपि प्रस्तूयन्ते तेऽत्र । एतस्यास्तु स्याद्वादमञ्जर्या उद्गमयितारः श्रीउदयप्रभप्रभुगुरुचरणचश्चरीकाः श्रीहेमचन्द्रावर्ण्यगुणगणचन्द्रि १ इमे च उदयत्प्रभा उदयप्रभसूरयः आरम्भसिद्धि- धर्माभ्युदयमहाकाव्य-उपदेशमालाकर्णिकावृत्तिप्रभृतिनानाविधग्रन्थविधायकाः १ प्रतिवादिविधुविधुन्तुदाः सौवं सत्तासमयं खपरिचयं च खकृतकर्णिकावृत्तौ दर्शयामासिवासः, तच्चेदम् श्रीमद्विजयसेनस्य सौमनस्यं न मन्यते । यद्वासिता धूताः कैर्न गुणाः शिष्याश्च मूर्धसु ? ॥ ११॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy