SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥६९॥ | निरर्थकं, अविज्ञातार्थम् , अपार्थकम् , अप्राप्तकालं, न्यूनम् , आधिकं, पुनरुक्तम् , अननुभाषणम् , अज्ञानम् , | अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च ।। तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम- निग्रहस्थानम् ;यथाऽनित्यः शब्दः, ऐन्द्रियकत्वाद्, घटवदिति प्रतिज्ञासाधनाय वादी वदन् , परेण सामान्यमैन्द्रियकमपि । नित्यं दृष्टमिति हेतावनैकान्तिकीकृते, यद्येवं ब्रूयात्-सामान्यवद् घटोऽपि नित्यो भवत्विति, स एवं ब्रुवाणः | शब्दाऽनित्यत्वप्रतिज्ञां जह्यात् । प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधीयमभिदधतः । प्रतिज्ञान्तरं नाम-निग्रहस्थानं भवति;-अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते, तथैव सामान्येन व्यभिचारे । चोदिते, यदि ब्रूयाद्-युक्तं यत् सामान्यमैन्द्रियकं नित्यम् , तद्धि सर्वगतम् , असर्वगतस्तु शब्द इति । तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः-प्रतिज्ञान्तरमसर्वगतः शब्द इति निग्रहस्थानम् । अनया दिशा शेषाण्यपि | विंशतिज्ञेयानि; इह तु न लिखितानि, पूर्वहेतोरेव । इत्येवं मायाशब्देनात्र च्छलादित्रयं मुचितम् । तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतोऽक्षपादवैराग्यव्यावर्णनं, तमसः प्रकाशात्मकत्वप्रख्यापनमिव कथमिव नोपहसनीयम् ॥ इति काव्यार्थः ॥ १०॥ __ अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्सरं निरस्यन्नाह 000000000000000000000000000000000000००० ॥६९॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy