________________
स्याद्०
॥६७॥
छलजातिनिग्रहस्थानानां - मायोपदेशादिति पदेनोपक्षेपः कृतः । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः- छलम् । तत् त्रिधा - वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तन्निषेधो वाक्छलम्; यथा - नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते, परः संख्यामारोप्य निषेधति - कुतोऽस्य नव कम्बला : :, इति । संभावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वाssरोपणेन तन्निषेधः - सामान्यच्छलम् ; यथा - अहो ! नु खल्वसौ ब्राह्मणो विद्याऽऽचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति - संभवति ब्राह्मणे, विद्याऽऽचरणसंपदिति; तच्छलवादी - ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नाभियुङ्क्ते - यदि ब्राह्मणे विद्याऽऽचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् - उपचारच्छलम् ; यथा-मञ्चाः क्रोशन्तीत्युक्ते, परः प्रत्यवतिष्ठते-कथमचेतना मञ्चाः क्रोशन्ति ?, मञ्चस्थाः पुरुषाः क्रोशन्तीति ।
तथा सम्यगृहेतौ हेत्वाभासे वा वादिना प्रयुक्ते, झटिति तद्दोषतत्त्वाऽप्रतिभासे हेतुप्रतिविम्बनप्रायं किमपि प्रत्यवस्थानं - जातिः, दूषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधर्म्यादिप्रत्यवस्थानभेदेन; यथासाधर्म्यवैधर्म्यात्कर्षाऽपकर्षवर्ण्याऽवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वथापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्याऽनित्यकार्यसमाः ।
तत्र साधर्म्येण प्रत्यवस्थानं - साधर्म्यसमा जातिर्भवतिः - अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे
Jain Educatiemational
For Private & Personal Use Only
॥६७॥
www.bhibbelibrary.org