SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्याद्० प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रे यसाधिगमः" इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसाऽवाप्तिहेतुः । न ोकेनै॥६५॥ व क्रियाविरहितेन ज्ञानमात्रेण--मुक्तियुक्तिमती; असमग्रसामग्रीकत्वात् ; विघटितकचक्ररथेन मनीषितनगरप्राप्तिवत् । न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्त्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति; न ह्यमीषां संहते अपि ज्ञानक्रिये- मुक्तिप्राप्तिहेतुभूते वितथत्वात् तज्ज्ञानक्रिययोः । न च वितथत्वमसिद्धम् ;-विचार्यमाणानां षोडशानामपि तत्त्वाऽऽभासत्वात् । तथाहि-तैः प्रमाणस्य तावद् लक्षणमित्थं मूत्रितम्- "अर्थोपलब्धिहेतुः प्रमाणम्" इति । एतच्च न विचार| सहम: यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमानं. तत्सर्वकारकसाधारणमिति कर्तकर्मादेरपि प्रमाणत्वप्र| सङ्गः । अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं, तर्हि तज्ज्ञानमेव युक्तं, न चेन्द्रियसनिक र्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम् ; न चेन्द्रियसन्निकर्षसामग्यादौ सत्यपि | 21 ज्ञानाभावेऽर्थोपलम्भः । साधकतमं हि करणम् । अव्यवहितफलं च तदिष्यते; व्यवहितफलस्यापि करणत्वे दुग्धभोजनाऽऽदेरपि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम् ; अन्यत्रोपचारात् । यदपि न्यायभूषणसूत्र-1॥६५॥ कारेणोक्तम्- “ सम्यगनुभवसाधनं प्रमाणम् " इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव | Jain Educatie mational For Private & Personal Use Only wwwjainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy