________________
स्याद्
॥६४॥
ते; “ अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते" इति हिन्यायवार्तिकम् । वस्तुतस्त्वपरामृष्टतत्त्वातत्त्वविचारं मौखर्य-वितण्डा; तत्र यत्पाण्डित्यम्-अविकलं कौशलं, तेन कण्डूलमिव कण्डूलं, मुखंलपनं यस्य सः तथा तस्मिन् । कण्डू:- खजू :, कण्डूरस्यास्तीति कण्डूलम् , (सिध्मादित्वाद् मत्वर्थीयो लपत्ययः ) । यथा-किलान्तरुत्पन्न कृमिकुलजनितां कण्डूतिं निरोद्धमपारयन् पुरुषो व्याकुलतां कलयति, एवं तन्मुखमपि वितण्डापाण्डित्यनासम्बद्धप्रलापचापलमाकलयत् कण्डूलांमत्युपचयते ।
एवं च स्वरसत एव स्वस्वाभिमतमतव्यवस्थापनाविसंस्थुलो वैतण्डिकलोकः, तत्र च तत्परमाऽऽभूतपुरुपविशेषपरिकल्पितपरवञ्चनप्रचुरवचनरचनोपदेशश्चेत् सहायः समजनि, तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताऽऽहुतिप्रक्षेप इति; तैश्च भवाभिनन्दिभिर्वादिभिरेतादृशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितम् । तथा चाहु:
"दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाऽऽटोपमण्डिताः? ॥१॥
गतानुगतिको लोकः, कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः"॥२॥ कारुणिकत्वं च वैराग्याद् न भिद्यते; ततो युक्तमुक्तम्-अहो ! विरक्त इति स्तुतिकारेणोपहासवचनम् ।
अथ मायोपदेशादिति मूचासूत्रं वितन्यते,- अक्षपादमते किल षोडश पदार्थाः; "प्रमाणप्रमेयसंशय१ 'पण्डिताः' इत्यपि पाठः।
॥६४॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org