________________
स्याद्०
॥६३॥
व्याख्या- अन्ये- अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामानः परे, तेषामयं शास्तृत्वेन संबन्धी- अन्यदीयो मुनिः- अक्षपादऋषिः, अहो ! विरक्तः- अहो ! वैराग्यवान् । (अहो इत्युपहासगर्भमाचर्यं सूचयति)। (अन्यदीय इत्यत्र “ईयकारके” ।।३।२।१२१।। इति दोऽन्तः ) । किं कुर्वन्नित्याह- परमर्म भिन्दन् - ( जातावेकवचन प्रयोगात् ) परमर्माणि व्यथयन् 'बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति पारिभाषिकी संज्ञा, तत उपचारात् साध्यस्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् तद्भिन्दन् ? मायोपदेशाद्धेतोः; माया - परवञ्चनम्, तस्या उपदेशः - छलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्येभ्यः प्रतिपादनं, तस्मात् । ( " गुणादस्त्रियां नवा " ।। २ । २ । ७७ ।। इत्यनेन हेतौ तृतीयाप्रसङ्गे - पञ्चमी ) ।
कस्मिन् विषये मायामयमुपदिष्टवान् ?, इत्याह-अस्मिन् - प्रत्यक्षोपलक्ष्यमाणे, जने - तत्त्वातत्त्वविमर्शहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते ?, स्वयम् - आत्मना परोपदेशनिरपेक्षमेव, विवादग्रहिले - विरुद्ध:परस्परकक्षीकृतपक्षाधिक्षेपदक्षः, वादो- वचनोपन्यासो विवादः । तथा च भगवान् हरिभद्रसूरि :-- “लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः स विवाद इति स्मृतः” ॥ १ ॥ तेन ग्रहिल इव-- ग्रहगृहीत इव, विवादग्रहिलः, तत्र । यथा - ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनमलापी स्याद् -- एवमयमपि जन इति भावः ।
तथा, वितण्डा - प्रतिपक्षस्थापनाहीनं वाक्यम् ; वितण्ड्यते आहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्प
Jain Education International
For Private & Personal Use Only
॥६३॥
www.jainelibrary.org