________________
स्याद्०
॥५९॥
विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् ।
... अथास्तु यथाकथञ्चिच्छरीरोत्पत्तिः, तथापि सावयवं शरीरम् । प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् । तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः; कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणैरारभ्येत?; न तावद्विजातीयैः-तेषामनारम्भकत्वात् ; न हि तन्तवो घटमारभन्ते । न च सजातीयैः-यत आत्मत्वाभिसम्बन्धादेव तेषां कारणानां सजातीयत्वम् ; पार्थिवादिपरमाणूनां विजातीयत्वात् ; तथा चात्मभिरात्मा | आरभ्यत इत्यायातम् । तच्चाऽयुक्तम् । एकत्र शरीरेऽनेकाऽऽत्मनामात्माऽऽरम्भकाणामसम्भवात् । सम्भवे वा प्रतिसन्धानाऽनुपपत्तिः, न ह्यन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति; अतिप्रसङ्गात् । तदारभ्यत्वे चास्य घटवदवयव क्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् । तस्माद्व्यापक एवाऽऽत्मा युज्यते, कायप्रमाणताया- | मुक्तदोषसद्भावादिति चेत् । नः सावयवत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयवत्वं तावद्असंख्येयप्रदेशाऽऽत्मकत्वात् । तथा च द्रव्यालङ्कारकारौ–“आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धाई- | त्वात् " इति । यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र मूक्ष्मेक्षिका चिन्त्या । प्रदेशेष्वप्यवयवव्यवहारात- कार्यत्वं तु वक्ष्यामः । ____ नन्वात्मनां कार्यत्वे घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवाऽऽरभ्यत्वप्रसक्तिः; अवयवा ह्यवयविनमारभन्ते, यथा- तन्तवः पटमिति चेत् ; न वाच्यम् । न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपाल
॥५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,