SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥५८॥ Jain Educa सङ्गः । अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयोगः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिर्निष्क्रम्य वह्नेरूर्ध्वज्वलनादिकं करोति ?, इति चिन्त्यमेतत् । आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः सर्वगतत्वेनेश्वरान्तरऽनुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरऽनुप्रवेशे - तस्याप्यकर्तृत्वाऽऽपत्तिः न हि क्षीरनीरयोरन्योऽन्यसंबन्धे, एकतरस्य पानादिक्रिया - अन्यतरस्य न भवतीति युक्तं वक्तुम् । किश्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगाऽऽयतनाभ्युपगमाद् नायं दोष इति चेत्; ननु स भोगायतनं सर्वाऽऽत्मना अवष्टभ्नीयाद्, एकदेशेन वा ? । सर्वाऽऽत्मना चेद् - अस्मदभिमताङ्गीकारः । एकदेशेन चेत्- सावयवत्वप्रसङ्गः, परिपूर्ण भोगाभावश्च । अथाऽऽत्मनो व्यापकत्वाऽभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाऽभावाद्-- आद्यकर्माऽभावः, तदभावाद्-अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन तत्संबन्धस्य चाभावाद्-अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् ; यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् ; अयस्कान्तं प्रति-अयसस्तेनाऽसंयुक्तस्याप्याऽऽकर्षणोपलब्धेः । अथासंयुक्तस्याप्याकर्षणे- तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ?, इति चेत् ; संयुक्तस्याप्याकर्षणे- कथं सएव दोषो न भवेत् ?; आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाऽविशेषेऽप्यदृष्टवशाद् temational For Private & Personal Use Only www ॥५८॥ ibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy