SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥५८॥ Jain Educa सङ्गः । अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयोगः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिर्निष्क्रम्य वह्नेरूर्ध्वज्वलनादिकं करोति ?, इति चिन्त्यमेतत् । आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः सर्वगतत्वेनेश्वरान्तरऽनुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरऽनुप्रवेशे - तस्याप्यकर्तृत्वाऽऽपत्तिः न हि क्षीरनीरयोरन्योऽन्यसंबन्धे, एकतरस्य पानादिक्रिया - अन्यतरस्य न भवतीति युक्तं वक्तुम् । किश्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगाऽऽयतनाभ्युपगमाद् नायं दोष इति चेत्; ननु स भोगायतनं सर्वाऽऽत्मना अवष्टभ्नीयाद्, एकदेशेन वा ? । सर्वाऽऽत्मना चेद् - अस्मदभिमताङ्गीकारः । एकदेशेन चेत्- सावयवत्वप्रसङ्गः, परिपूर्ण भोगाभावश्च । अथाऽऽत्मनो व्यापकत्वाऽभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाऽभावाद्-- आद्यकर्माऽभावः, तदभावाद्-अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन तत्संबन्धस्य चाभावाद्-अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् ; यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् ; अयस्कान्तं प्रति-अयसस्तेनाऽसंयुक्तस्याप्याऽऽकर्षणोपलब्धेः । अथासंयुक्तस्याप्याकर्षणे- तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ?, इति चेत् ; संयुक्तस्याप्याकर्षणे- कथं सएव दोषो न भवेत् ?; आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाऽविशेषेऽप्यदृष्टवशाद् temational For Private & Personal Use Only www ॥५८॥ ibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy