SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्याद् शादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः; तदाश्रया हि गन्धादिपुद्गलाः, तेषां च वैश्रसिक्या, प्रायोगिक्या वा गत्या गतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत || एवाह-निष्पतिपक्षमेतदितिः एतद् निष्पतिपक्षं-- बाधकरहितम् । न हि दृष्टेऽनुपपन्नं नामेति न्यायात्। ___ ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः; स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम् ; तास चाऽऽकर्षणीयोच्चाटनीयाऽऽदिदेशगमने कौतस्कुतोऽयमुपालम्भः ?। न जातु गुणा गुणिनमतिरिच्य वर्तन्त, इति । अथोत्तरार्द्ध व्याख्यायते- तथापीत्यादि; तथापि- एवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे अतत्त्ववाडी पहताः (अनाचार इत्यत्रेव नः कुत्सार्थत्वात् ) कुत्सिततत्त्ववादेन तदभिमताऽऽप्ताऽऽभासपुरुषविशेषप्रणीतने ।। तत्त्वाऽऽभासप्ररूपणेनोपहताः-व्यामोहिताः, देहान बहिः- शरीरव्यतिरिक्तेऽपि देशे,आत्मतत्त्वम्- आत्मरूप पठन्ति-शास्त्ररूपतया प्रणयन्ते । इत्यक्षरार्थः।। भावार्थस्त्वयम्- आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणाऽनुपलब्धेः, यो यः सर्वत्रानुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः, तथा चायम् , तस्मात् तथा; व्यतिरेके- व्योमादि । न चायम-18 सिद्धो हेतुः- कायव्यतिरिक्तदेशे तद्गुणानां बुद्ध्यादीनां वादिना, प्रतिवादिना वाऽनभ्युपगमात् । तथा | ॥५६॥ च भट्टः श्रीधरः- "सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वम् , नान्यत्र, शरीरस्योपभोगाऽऽयतनत्वात् , अन्यथा Jain Educatie mational For Private & Personal Use Only www.janelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy