SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥५५॥ कृतकृत्यत्वात् । वीर्यान्तरायक्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादिलब्धिवत् ; न च कचिदुपयुज्यते; कृतार्थत्वात्। धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येवः तदभावे मोक्षस्यैवायोगात् । संस्कारश्च मतिज्ञानविशेष एव; तस्य च मोहक्षयानन्तरमेव क्षीणत्वादभाव इति । तदेवं-न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तयमुक्तिः । इति काव्यार्थः ॥ ८॥ - अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमप्यपलप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्ट- | यस्तस्य विभुत्वं मन्यन्ते, अतस्तत्रोपालम्भमाह यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद निष्प्रतिपक्षमेतत्। तथापि देहाद बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥९॥ ___ यत्रैव-देशे, यः-पदार्थः; दृष्टगुणो, दृष्टाः-प्रत्यक्षादिप्रमाणतोऽनुभूताः, गुणा-धर्मा यस्य स तथा; स पदार्थः, तत्रैव-विवक्षितदेश एव,उपपद्यते (इति क्रियाऽध्याहारो गम्यः) (पूर्वस्यैवकारस्यावधारणार्थस्यात्राप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः) । अमुमेवार्थ दृष्टान्तेन द्रढयति- कुम्भादिवदिति-- घटादिवत ; यथा कुम्भादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते, तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्रएवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदे ॥५५॥ Jain Educati emational For Private & Personal Use Only www. prary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy