SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्या ॥५२॥ | केवलं सुखमेवः दुःखमूलस्य शरीरस्यैवाऽभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेवः स्वस्वरूपावस्थानं | हि मोक्षः ; अत एव चाऽशरीरमित्युक्तम् । आगमार्थश्चायमित्यमेव समर्थनीयः, यत एतदर्थानुपातिन्येव | | स्मृतिरपि दृश्यते " सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्पापमकृताऽऽत्मभिः "॥१॥ न चायं सुखशब्दो दुःखाऽभावमात्रे वर्तते-मुख्यसुखवाच्यतायां बाधकाऽभावात् ; अयं रोगाद् | विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यमसङ्गाचः दुःखाभावमात्रस्य-रोगाद् | विषमुक्त इतीयतैव गतत्वात् । न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः ; को हि नाम- शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत ; दुःखसंवेदनरूपत्वादस्य-सुखदुःखयोरेकस्याभावे परस्यावश्यम्भावात् । अत | एव त्वदुपहासः श्रूयते " वरं वृन्दावने रम्ये क्रोष्तृत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति "॥१॥ सोपाधिकसावधिकपरिमिताऽऽनन्दनिष्यन्दात स्वर्गादप्यधिकं तद्विपरीताऽऽनन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत, तदलमपवर्गेण; संसार एव वरमस्तु । यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां ॥५२॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy