SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्याद् तत्राऽऽद्यः पक्षः-सव्यभिचारः; अपरापरेषामुत्पादुकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमान त्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः । परमाणुपाकज॥५१॥ रूपादिभिश्च व्यभिचारी हेतुः; तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्च भविष्यति-विपर्यये बाधकप्रमाणाऽभावात् । इति संदिग्धविपक्षव्या-| वृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च, स्याद्वादवादिनां नास्ति कचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्नू8 नामेव सतां भावानामुत्पादव्यययुक्तत्वात् , इति विरुद्धश्च । इति नाधिकृतानुमानाद् बुद्धयादिगुणोच्छेदरूपा सिद्धिः सिध्यति । नापि " न हि वै सशरीरस्य " इत्यादेरागमात् ; स हि-शुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रिया- | प्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः । मुक्तिदशायां तु- सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते ?। आगमस्य चायमर्थः-- सशरीरस्य-गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः, प्रियाप्रिययोः- परस्परानुषक्तयोः सुखदुःखयोः, अपहतिः; अभावो नास्तीति; अवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम् ; ( परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते )। अशरीरं- मुक्तात्मानं (वा-शब्दस्यैवकारार्थत्वात् ) | अशरीरमेव वसन्त- सिद्धिक्षेत्रमध्यासीन, प्रियाप्रिये- परस्परानुषक्ते सुखदुःखे, न स्पृशतः। इदमत्र हृदयम्- यथा किल संसारिणः सुखदुःखे परस्परानुषक्त स्यातां, न तथा मुक्तात्मनः, किन्तु ०००००००००००००००००००००० ॥५१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy