SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥४८॥ य॑म् ?। न चैवं करणस्य द्वैविध्यमप्रसिद्धम् । यदाहुलाक्षणिकाः" करणं द्विविधं ज्ञेयं, बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दात्रेण, मेरुं गच्छति चेतसा" ॥१॥ . यदि हि किश्चित्करणमान्तरमेकान्तेन भिन्नमुपदयते, ततः स्याद् दृष्टान्तदान्तिकयोः साधर्म्यम् , न च तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् । तथा च सति लोकमतीतिविरोध इति । अपि च, साध्यविकलोऽपि वासिकिदृष्टान्तः ; तथाहि-नायं वर्धकिः-'काष्ठमिदमनया वास्या घट-18 | यिष्ये' इत्येवं वासिग्रहणपरिणामेनाऽपरिणतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा; | तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते, पुरुषोऽपि । इत्येवं लक्षणैकार्थसाधकत्वाद् वासि| वर्षक्योरभेदोऽप्युपपद्यते तत्कथमनयोर्भेद एव?, इत्युच्यते। एवमात्माऽपि-'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' | इति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानाऽऽत्मनोरुभयोरपि संवित्तिलक्षणैककार्य| साधकत्वादभेद एव। एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्य किमात्मनि व्यवस्थितं, आहोस्विद् || | विषये ?, इति वाच्यम् । आत्मनि चेत्-सिद्धं नः समीहितम् । विषये चेत्-- कथमात्मनोऽनुभवः प्रतीयते । | अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्यापि ?; तद्भेदाऽविशेषात् । ॥४८॥ Jain Educa temational For Private & Personal Use Only www. library.org ला
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy