SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥४७॥ अथास्तु समवायेन ज्ञानाऽऽत्मनोः सम्बन्धः, किन्तु स एव समवायः केन तयोः संबध्यते । समवायान्तरेण चेद् ; अनवस्था । खेनैव चेत् : किं न ज्ञानात्मनोरपि तथा ?। अथ यथा प्रदीपस्तत्स्वाभाव्याद्आत्मानं,परं च प्रकाशयति, तथा समवायस्येडगेव स्वभावो-यदात्मानं, ज्ञानाऽऽत्मानौ च सम्बन्धयतीति चेत् । ज्ञानाऽऽत्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ संबध्येते ? । किञ्च, प्रदीपदृष्टान्तोऽपि भवत्पक्षे न | जाघटीति, यतः प्रदीपस्तावद् द्रव्यं, प्रकाशश्च तस्य धर्मः, धर्मधर्मिणोश्च त्वयाऽत्यन्तं भेदोऽभ्युपगम्यते । तत्कथं प्रदीपस्य प्रकाशात्मकता?; तदभावे च स्वपरप्रकाशकस्वभावताभणितिनिर्मूलैव । यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामपि तदनु| षज्यते; भेदाऽविशेषात् । अपि च, तौ स्वपरसम्बन्धनस्वभावौ समवायाद् भिन्नौ स्याताम् , अभिन्नौ वा ?। यदि भिन्नौ, ततस्तस्यैतौ स्वभावाविति कथं सम्बन्धः?; सम्बन्धनिबन्धनस्य समवायान्तरस्याऽनवस्थाभयादनभ्युपगमात् । अथाऽभिन्नौ, ततः समवायमात्रमेव ; न तौ; तदव्यतिरिक्तत्वात् तत्स्वरूपवादिति । किञ्च, यथा | इह समवायिषु समवाय इति मतिः समवायं विनाऽप्युपपन्ना, तथा इहाऽऽत्मनि ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोषः । . ___ अथाऽऽत्मा कर्ता, ज्ञानं च करणं, कर्तृकरणयोश्च वर्धकिवासीवद् भेद एव प्रतीतः, तत्कथं ज्ञानाऽऽत्मनोरभे- दः, इति चेत् । न ; दृष्टान्तस्य वैषम्यात् । वासी हि बाह्यं करणं, ज्ञानं चाऽऽभ्यन्तरं, तत्कथमनयोः साध ॥४७॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy