________________
स्याद् ०
॥४२॥
वस्तुस्वरूपम् - अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति, निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् ।
सामान्याऽऽदित्रिके कथं नानुवृत्तिप्रत्ययः ?, इति चेद्; बाधकसद्भावादिति ब्रूमः । तथाहि - सत्तायामपि सत्तायोगाङ्गीकारे - अनवस्था । विशेषेषु पुनस्तदभ्युपगमे - व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः । समवाये तु तत्कल्पनायां-सम्बन्धाऽभावः केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायान्तराभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः
"व्यक्तेरभेदस्तुल्यत्वं सङ्करो ज्यानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधक सङ्ग्रहः" || १ || इति । ततः स्थितमेतत्सतामपि स्यात् क्वचिदेव सत्तेति ।
तथा, चैतन्यमित्यादि, चैतन्यं ज्ञानम्, आत्मनः- क्षेत्रज्ञाद्, अन्यद् - अत्यन्तव्यतिरिक्तम्, असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धि ज्ञानमिति व्यपदेशः १, इति पराssशङ्कापरिहारार्थं औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमौपाधिकम् - समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतम्, आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धोपढौकितमिति यावत् । यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादु बुद्ध्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात् ; तदव्यतिरिक्तत्वात् ;
Jain Education International
For Private & Personal Use Only
॥४२॥
www.jainelibrary.org