SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्याद्० शीघ्रगतिः पीनः ककुद्मान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां-नित्येषु तुल्याऽऽकृतिगुणक्रियेषु पर माणुषु, मुक्तात्ममनःसु चाऽन्यनिमित्ताऽसम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽय-81 ॥४१॥ मितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्ट च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः" | इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तरेव हेतुत्वात् ।। तथा अयुतांसद्धानामाधायाऽऽधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः पर || स्परपरिहारेण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभावः ‘इह तन्तुषु पटः' इत्यादेः प्रत्ययस्यासाधारणं || कारणं समवायः; यवशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते; यथा छि| दिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः। - साम्प्रतमक्षरार्थो व्याक्रियते- सतामपीत्यादि-सतामपि-- सद्बुद्धिवेद्यतया साधारणानामपि, षण्णां 8 पदार्थानां मध्ये ; कचिदेव- केषुचिदेव, पदार्थेषु ; सत्ता-- सामान्ययोगः, स्याद्-- भवेत् , न सर्वेषु । तेषामेषा वाचोयुक्तिः--सदिति, यतो--द्रव्यगुणकर्मसु सा सत्ता इति वचनाद्-यत्रैव सत्प्रत्ययस्तत्रैव सत्ता; सत्प्रत्ययश्चद्रव्यगुणकर्मस्वेव, अतस्तेष्वेव सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति-यद्यपि वस्तुस्वरूपम्-अस्तित्वं सामान्यादित्रयेऽपि विद्यते ; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति । य एव चानुवृत्तिम-18 त्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्तायोगस्तत्र । द्रव्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारणं ॥४ ॥ Jain Educatie mational For Private & Personal Use Only wwwalibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy