________________
स्याद्
॥४०॥
उत्क्षेपणत्वादिकं ज्ञेयम् ।
तत्र सत्ता-द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्या ?, इति चेद्-उच्यते । न द्रव्यं--सत्ता, द्रव्यादन्येत्यर्थः; | एकद्रव्यवत्त्वाद्-एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः; द्रव्यत्ववत्-यथा द्रव्यत्वं-नवसु द्रव्येषु प्रत्येकं वर्तमानं | द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव ; एवं सत्ताऽपि । वैशेषिकाणां हि अद्रव्यं वा-द्रव्यम् , अनेकद्रव्यं वा--द्रव्यम् । तत्राद्रव्यं द्रव्यम्--आकाशः,कालो,दिगाऽऽत्मा,मनः,परमाणवः अनेकद्रव्यं तु-द्वयणुकादिस्कन्धाः; एकद्रव्यं तु-द्रव्यमेव न भवतिः एकद्रव्यवती च सत्ता,इति द्रव्यलक्षणविलक्षणत्वाद् न द्रव्यम् । एवं न गुणः-- सत्ता ; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु गर्तेत ; निर्गुणत्वाद् । गुणानाम् ; वर्तते च गुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता--कर्म ; कर्मसु भावात् ,कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तर्हि कर्मसु वर्तत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः; सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता।
तथा विशेषाः--नित्यद्रव्यवृत्तयः,अन्त्याः-अत्यन्तव्यावृत्तिहेतवः,ते द्रव्यादिवलक्षण्यात् पदार्थान्तरम्।तथा च प्रशस्तकरः--"अन्तेषु भवा अन्त्याः; स्वाश्रयविशेषकत्वाद् विशेषाः । विनाशाऽऽरम्भरहितेषु नित्यद्रव्येष्वऽज्वाकाशकालदिगाऽऽत्ममनस्सु-प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवा- 18 दिष्वश्वादिभ्यस्तुल्याऽऽकृतिगुणक्रियाऽधयवोपचयाऽवयव विशेषसंयोगनिमित्ता प्रत्ययव्यावृत्तिदृष्टा--गौःशुक्लः
॥४०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org