________________
स्याद्०
॥३८॥
“अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्ये, धीः कथं गौणे ?”॥ १ ॥ तस्माद् धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदोनानात्वं, नास्तीति भावार्थः ।
किञ्च, योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः- स खल्वनुहरते नपुंसकादपत्यमसवमनोरथम् ; इह तन्तुषु पट इत्यादेर्व्यवहारस्याऽलौकिकत्वात् ; पांशुलपादानामपि इह पटे तन्तव इत्येव प्रतीतिदर्शनात् इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात् । अत एवाह- अपि च लोकवाध इति--अपिचेति- दूषणाभ्युच्चये, लोकः- प्रामाणिकलोकः, सामान्यलोकश्चः तेन वाधो- विरोधः, लोकवाधः तदमतीतव्यवहारसाधनात् ; बाधशब्दस्य “ईहाद्याः प्रत्ययभेदतः " (लिङ्गा-७९) इति पुंस्त्रीलिङ्गता । तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एवं सम्बन्धः प्रतिपत्तव्यो नान्यः समवायाऽऽदिः । इति काव्यार्थः ॥ ७ ॥
अथ सत्ताsभिधानं पदार्थान्तरम्, आत्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणम्, आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिम्, अज्ञानादङ्गीकृतवतः परानुपहसन्नाह
सतामपि स्यात् क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
||३८||
www.jainelibrary.org