SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ - स्याद् 18 वदवस्तुत्वमेव भवेत् । ततश्च इह समवाये समवायत्वम् , इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव; ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि समवायत्वं समवायान्तरेण संवन्धनीयम् : ॥३७॥ तदप्यपरेण, इत्येवं दुस्तराऽनवस्थामहानदी। एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्त्या उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी । वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्यभिसम्बन्धनिबन्धनं समवायो मुख्यः, तत्र त्वतलादिप्रत्ययाभिव्यङ्गयस्य || | सङ्ग्रहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्ति- | भेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित इहतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः,तत्साध्यश्च समवाय इति । तदेतद् न विपश्चिच्चेतश्चमत्कारकारणम् ; यतोत्रापि जातिरुद्भवन्ती केन निरुध्येत ?। व्यक्तरभेदेनेतिचेत् । न। तत्तदवच्छेदकवशात् तद्भेदोपपत्ती व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो हि घटसमवायोऽन्यश्व पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति ; तत्सिद्धौ-सिद्ध एव जात्युद्भवः । तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात । तदेतत्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह- न गौणभेद इति-गौण इति |8|॥३७॥ | योऽयं भेदः- स नास्ति; गौणलक्षणाऽभावात् । तल्लक्षणं चेत्थमाचक्षते ००००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy