________________
स्याद्
॥३६॥
किञ्च, अयं- तेन वादिना एको,नित्यः, सर्वव्यापकः, अमूर्तश्च परिकल्प्यते । ततो यथा घटाऽऽश्रिताः पाकजरूपादयोधर्माः समवायसंबन्धेन घटे समवेताः, तथा किं न पटेऽपि ?;तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् । यथाऽऽकाश एको, नित्यो, व्यापकः, अमूर्तश्च सन्-- सर्वैः सम्बन्धिभियुगपदविशेषेण संवध्यते, तथा किं नायमपीति। विनश्यदेकवस्तुसमवायाऽभावे च-समस्तवस्तुसमवायाऽभावः प्रसज्यते। तत्तदवच्छेदकभेदाद् नायं दोष इति चेत् , एवमनित्यत्वाऽऽपत्तिः प्रतिवस्तुस्वभावभेदादिति । - अथ कथं समवायस्य न ज्ञाने प्रतिभानम् । यतस्तस्येहेतिप्रत्ययःसावधानं साधनम् इहप्रत्ययश्चाऽनुभवसिद्ध एव । इह तन्तुषु पटः, इहाऽऽत्मनि ज्ञानम् , इह घटे रूपादय इति प्रतीतेरुपलम्भात् । अस्य च प्रत्ययस्य केवलधर्मधय॑नालम्बनत्वादस्ति समवायाऽऽख्यं पदार्थान्तरं तहेतुः; इति पराऽऽशङ्कामभिसन्धाय पुनराहइहेदमित्यस्ति मतिश्च वृत्ताविति--इहेदमिति इहेदमिति आश्रयाऽऽश्रयिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति-समवायसंबन्धेऽपि विद्यते । चशब्दोऽपिशब्दार्थः, तस्य च व्यवहितः सम्बन्धः, तथैव च व्याख्यातम् ।
इदमत्र हृदयम्- यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं, नाऽपरं वस्त्वन्तरम् । तेन स्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः-स एव समवाय इत्युच्यते "प्राप्तानामेव प्राप्तिः समवायः" इति वचनात् । एवं समवायत्वाभिसम्बन्धात समवाय इत्यपि किं न कल्प्यते?; यतस्तस्याऽपि यत् समवायत्वं स्वस्वरूपं, तेन साध संबन्धोऽस्त्येव ; अन्यथा निःस्वभावत्वात् शशविषाण
॥३६॥
....
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org