SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्याद् व्याख्या-धर्मधर्मिणोरतीवभेद-अतीवेत्यत्र-इवशब्दो वाक्यालङ्कारः तं च पायोऽतिशब्दात् , किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः यथा-"आवर्जिता किश्चिदिव स्तनाभ्याम""उवृत्तः क इव सुखाऽऽअहः परेषाम"इत्यादि। ततश्च धर्मधर्मिणोः अतीवभेदे-एकान्तभिन्नत्वेऽङ्गीक्रियमाणे, स्वभावहानेर्धर्मधर्मित्वं न स्यात्-अस्य धर्मिण इमे धर्माः, एषां च धर्माणामयमाश्रयभूतो धर्मी-इत्येवं सर्वप्रसिद्धो धर्ममिव्यपदेशो न पामोति । तयोरत्यन्ताभनत्वेऽपि तत्कल्पनायां- पदार्थान्तरधर्माणामपि विवक्षितधर्मधर्मित्वाऽऽपत्तेः। एवमुक्ते सति, परः प्रत्यवतिष्ठते- वृत्त्याऽस्तीति- अयतसिद्धानामाधार्याऽऽधारभतानामिहप्रत्ययहेतः | सम्बन्धः समवायः; स च समवयनात् समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या- समवायसम्बन्धेन, तयोर्धर्मधर्मिणोः- इतरेतरविनिझुण्ठितत्वेऽपि धर्मधर्मिव्यपदेश इष्यते ; इति नाऽनन्तरोक्तो दोष इति । अत्राऽऽचार्यः समाधत्ते-चेदिति-यद्येवं तव मतिः- सा प्रत्यक्षपतिक्षिप्ताः यतो न त्रितयं चकास्ति अयं धर्मी, इमे चाऽस्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं--वस्तुत्रयं न चकाबस्ति-ज्ञानविषयतया न प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रालादिद्रव्यं | तस्मात् पृथक् तृतीयतया प्रतिभासते; नैवमत्र समवायस्याऽपि प्रतिभानम् , किन्तु द्वयोरेव धर्मधर्मिणोः इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः । .००००००००००००००००००००००००००००००००००००००० ॥३५॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy