________________
स्याद्
॥३४॥
किश्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता ; ततश्चायं जगत्सर्गे व्याप्रियते- स्वार्थात् , कारुण्याद् || वा। न तावत् स्वार्थात् ; तस्य कृतकृत्यत्वात् । न च कारुण्यात् ; परदुःखप्रहाणेच्छा हि कारुण्यम् । ततः प्राक् सर्गाद्-जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्गोत्तरकाले तु- दुःखि-10 | नोऽवलोक्य कारुण्याऽभ्युपगमे दुरुत्तरमितरेतराऽऽश्रयम्-कारुण्येन सृष्टिः, सृष्टया च कारुण्यम् । इति नास्य | जगत्कर्तृत्वं कथमपि सिद्ध्यति ।
तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः- स खलु केवलं बलवन्मोहविडम्बनापरिपाकइति । अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति-यथा ' इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः' इति ; तथापि सोऽर्थः सहृदयन हृदये धारणीयः; अन्य| योगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ॥ ६॥
_ अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्ब| न्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते, इति तन्मतं दूषयन्नाह
न धर्मधर्मित्वमतीवभेदे, वृत्त्याऽस्ति, चेद्, न त्रितयं चकास्ति। इहेदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदो,ऽपि च लोकबाधः॥७॥
॥३४॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org