SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥३२॥ दाति " इति । तथा - " अपुत्रस्य गतिर्नास्ति " इति लपित्वा, " अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ||१|| इत्यादि । कियन्तो वा दधिमा भोजनात् कृष्णा विवेच्यन्तेः तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्च - सर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्लव करण स्वैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजति १ । इति तन्नाऽयं सर्वज्ञः | तथा स्ववशत्वं - स्वातन्त्र्यं तदपि तस्य न क्षोदक्षमम्-- स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकच त्वया वर्ण्यते, तत्कथं सुखितदुःखिताऽऽयवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् ?, एकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते ? । अथ जन्मान्तरोपार्जिततत्तत्तदीयशुभाशुभकर्मप्रेरितः सन् तथा करोतीति दत्तस्तर्हि स्ववशत्वाय जलाञ्जलिः । कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहेतुकविष्टष्टष्टिकल्पनायाः कष्ठैकफलत्वाद् - अस्मन्मतमेवाऽङ्गीकृतं प्रेक्षावता । तथाचायातोऽयं “ घट्टकुत्र्यां प्रभातम् " इति न्यायः । किञ्च, प्राणिनां धर्माधर्मापेक्षमाणश्चेदयं सृजति प्राप्तं तर्हि यदयमपेक्षते - तन्न करोतीति । न हि कुलालो दण्डादि करोति । एवं कर्मापेक्षवेदीश्वरो जगत्कारणं स्यात् तर्हि - कर्मणीश्वरत्वम्, ईश्वरोऽनीश्वरः स्यादिति । तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम् । स खलु नित्यत्वेनैकरूपः सन्, त्रिभुवनसर्गस्व Jain Education International For Private & Personal Use Only ||३२|| www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy