________________
स्याद्०
||३०||
लोहोवलस्स सत्ती आयत्था चैव भिन्नदेसंपि । लोहं आगरिसंती दसिइ इह कज्जपचक्खा ॥३॥ एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिछिंदइ सव्वं को णु विरोहो भवे तत्थ ?” ॥ ४ ॥ इत्यादि । अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्राऽपि प्रतिविधीयते ननु तस्य सार्वश्यं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा । न तावत् प्रत्यक्षेण; तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयाऽतीन्द्रियग्रहणासामर्थ्यात् । नापि परोक्षेण; तद्धि अनुमानं शाब्दं वा स्यात् ? । न तावदनुमानम् ; तस्य लिङ्गिलिङ्गसम्बन्धस्मरणपूर्वकत्वात् ; न च तस्य सर्वज्ञत्वेऽनुमेये किञ्चिदव्यभिचारि लिङ्गं पश्यामः तस्याऽत्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् ।
अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं सर्वज्ञत्वमर्थादापादयतीति चेत् । न | अविनाभावाभावात् न हि जगद्वैचित्री तत्सार्वश्यं विनाऽन्यथा नोपपन्ना । द्विविधं हि जगत्-स्थावरजङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यं–स्त्रोपात्तशुभाशुभकर्मपरिपाकवशेनैव । स्थावराणां तु- सचेतनानामियमेव गतिः । अचेतनानां तु तदुपभोगयोग्यतासाधनत्वेनाऽनादिकालसिद्धमेव वैचित्र्यमिति ।
नाप्यागमस्तत्साधकः; स हि तत्कृतोऽन्यकृतो वा स्यात् ? । तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति, तदा तस्य महत्त्वक्षतिः–स्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकृतत्वात् । अन्यच्च तस्य शास्त्रकर्तृत्वमेव न युज्यते ; शास्त्रं हि वर्णाऽऽत्मकम् ; ते च ताल्वादिव्यापारजन्याः; स च शरीरे एव सम्भवी; शरीरा
Jain Education International
For Private & Personal Use Only
॥३०॥
www.jainelibrary.org