SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥२९॥ - ०००००००००००००००००००००००००००००००००००००००००० अनिष्टाऽऽपत्तिस्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धृलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि | स्वस्थानस्थमेव विषयं परिच्छिनत्ति, न पुनस्तत्र गत्वा तत्कुतो भवदुपालम्भः समीचीनः ?, नहि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादाऽनुभूतिः । तद्भावे हि स्रक्चन्दनाऽङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्माप्तिप्रयत्नवैफल्यप्रसक्तिरिति । यत्तु ज्ञानाऽऽत्मना सर्वगत्वे सिद्धसाधनं प्रागुक्तम् । तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति-- 'अस्य मतिः सर्वशास्त्रेषु प्रसरति' इति । न च ज्ञानं प्राप्यकारि; तस्याऽऽत्मधर्मत्वेन बहिर्निर्गमाऽभावात् । बहिर्निर्गमे चाऽऽत्मनोऽचैतन्याऽऽपच्या अजीवत्वप्रसङ्गः; न हि धर्मो धर्मिणमतिरिच्य वचन केवलो विलोकितः । यच्च परे दृष्टान्तयन्ति - यथा सूर्यस्य किरणा गुणरूपा अपि मर्याद् निष्क्रम्य भुवनं भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद् बहिनिर्गत्य प्रमेयं परिच्छिनत्तीति । तत्रेदमुत्तरम्-- किरणानां गुणत्वमसिद्धम् ; तेषां तेजसपुद्गलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु पृथग भवतीति । तथा च धर्मसङ्ग्रहिण्यां श्रीहरिभद्राचार्यपादाःकिरणा गुणा न, दव्वं, तेसिं पयासो गुणो, न वा दव्वं । जं गाणं आयगुणो कहमदव्यो स अन्नत्थ॥१॥ गन्तूण न परिछिदइ णाणं णेयं तयम्मि देसम्मि । आयत्थं चिय, नवरं अचिंतसत्ती उ विष्णेयं ।।२।। ॥२९॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy