SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ स्याद् पगुपालम्भनीयः, अतिप्रसङ्गात् । स हि तेषामेव दोषः। न खलु निखिलभुवनाऽऽभोगमवभासयन्तोऽपि भान 12 वीया भानवः कौशिकलोकस्याऽऽलोकहेतुतामभजमाना उपालम्भसम्भावनाऽऽस्पदम् । तथा च श्रीसिद्धसेनः-- ॥२६॥ "सद्धर्मवीजवपनानघकौशलस्य यद् लोकवान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं, खगकुलेष्विह तोमसेषु सूर्याशवो मधुकरीचरणावदाताः" ॥ १ ॥ ___ अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् ?, इति ब्रूमः । यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कर्तृ- 11 काः, कार्यत्वाद्, घटवदिति । तदयुक्तम् , व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं | गमयेत्' इति सर्ववादिसंवादः । स चायं जगन्ति सृजन सशरीरोऽशरीरो वा स्यात् ।। सशरीरोऽपि किमस्म-18 दादिवद् दृश्यशरीरविशिष्टः, उत पिशाचादिवददृश्यशरीरविशिष्टः ? । प्रथमपक्षे-प्रत्यक्षवाधः; तमन्तरेणापि च | जायमाने तृणतरुपुरन्दरधनुरभ्रादौ-कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः । द्वितीयविकल्पे- पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम् , आहोस्विदस्मदाबदृष्टवैगुण्यम् । प्रथमप्रकारः कोशपानप्रत्यायनीयः; तत्सिद्धौ प्रमाणाऽभावात् , इतेरतराश्रयदोषापत्तेश्च- सिद्धे हि माहात्म्य विशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम् , तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वैतीयीकस्तु प्रकारो-न संचरत्येव विचारगोचरे संशयानिवृत्तेः- किं तस्याऽसत्त्वाद् अदृश्यशरीरत्वं ॥२६॥ १ अप्रहित क्षेत्रादि खिलमुच्यते। २ तमसि संचरन्त इति तामसाः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy