SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥२७॥ वान्ध्येयादिवत् , किंवाऽस्मदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाऽभावात् । ____ अशरीरश्चेद्- तदा दृष्टान्तदान्तिकोषम्यम्-घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः; अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् ?, आकाशाऽऽदिवत् । तस्मात् सशरीराऽशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोाप्त्यसिद्धिः । किञ्च, त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः- धर्येकदेशस्य तरुविद्युदभ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिद् जगतः कर्ता। एकत्वादीनि तु जगत्कर्तत्वव्यवस्थापनायाऽऽनीयमानानि तद्विशेषणानि षण्डं प्रति कामिन्या रूपसंपन्निरूपणमायाण्येव: तथापि तेषां विचाराऽसहत्वख्यापनार्थ किश्चिदुच्यते । तत्रैकत्वचर्चस्तावत्- बहूनामेककार्यकरणे वैमत्यसम्भावना इति, नायमेकान्तः--अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमूर्भः, अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां, नैकसरघानिवर्तितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे; एवं चेद् भवतो भवानीपतिं प्रति निष्पतिमा वासना; तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एव किं न कल्प्यते ?। अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपह्नोतुं शक्यम् ?; तर्हि कीटिकाऽऽदिभिः किं तव विराद्धं ?,यत् तेषामसदृश- तादृशप्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते । तस्माद् वैमत्यभयाद् महेशितुरेकत्वकल्पना- भोजनादिव्यय ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy